This page has not been fully proofread.

४६८ भट्टि- काव्ये – चतुर्थे तित-काण्डे लक्षण रूपेऽटमो वर्गः,
 
को वा विश्वजनीनेषु
कर्मसु प्राघटिप्यत ॥ १७ ॥
 
क इत्यादि — यदि नारायणो न भवान् तदा तस्मादन्यः को नाम सुरद्विषां
राक्षसानां दृतानां प्राणानकर्त्स्यत् छिन्नवान् । 'कृती च्छेदने' । नैव । विश्वजनीनेषु
सर्वलोकहितेषु कर्मसु अनुग्रहलक्षणेपु को नाम प्राघटिप्यत चेष्टितवान् । अत्राच्छे-
दनक्रियाया अघटनक्रियायाश्च तद्विरुढच्छेदनघटनोपनिपातादतिपत्तिः । सर्वत्र
'२८०१ । किंवृत्ते ऌइलटौ । ३ । ३ । १४४ । इति क्रियातिपत्तौ भूते गर्दायां लङ् ॥
१५८५ - दैत्य क्षये महाराज ! यच्च यत्रा ऽघटिप्यथाः ॥
 
समाप्तिं जातु तत्रापि किं ना ऽनेप्यस् त्वमहितम्. १८
दैत्यक्षय इत्यादि — हे महाराज ! नैवेदमवकल्पयामि दैत्यक्षयनिमित्तम्
यच्च यत्र त्वमघटिप्यथाः यां पुनरात्मनो घटनां करिष्यसि किन्तु पुनः प्रादुर्भावे
घटिष्यसे । तत्रापि प्रादुर्भावत्वमीहितं चेष्टितं जातु कदाचित् समाप्तिं सिद्धिं
नानेष्य: किं न नेप्यसि । (२८०४ । जानुयो ।३।३।१४७।' इति जातुय-
च्छब्दौ अनवक्लृतिश्च लिङ्गनिमित्तं तस्मिन् क्रियातिपत्तौ भविष्यति नित्यं हृङ्ग
अत्राघटनक्रियायाश्चातिपत्तिः ज्ञानेनोपलव्धभविष्यप्रादुर्भावसमाप्तिनयनयोस्त-
द्विरुयोरुपनिपातात् ॥
 
१५८६ - तातं प्रसाद्य कैकेय्या भरताय प्रपीडितम् ॥
 
सहस्र-चक्षुषं रामो निनंसुः परिदृष्टवान् ॥ १९ ॥
तातमित्यादि — तातं दशरथं कैकेय्या प्रपीडितं सन्तापितं भरताय भरतार्थ
राज्येऽभिषिच्यता मिति प्रसाद्य तद्विपये चित्तकालुप्यं त्याजयित्वा रामः
सहस्रचक्षुपं इन्द्रं परिदृष्टवान् संदृष्टवान् । निनंसुः नन्तुमिच्छुः ॥
१५८७ - प्रेता वरेण शकस्य प्राणन्तः कपयस् ततः ॥
 
संजाताः फलिना ऽऽनम्र-रोचिष्णु-द्रुम-सद्रवः. २०
प्रेता इत्यादि- - ततः प्रणामानन्तरं शक्रस्य प्रसन्नस्य वरेण कपयः संग्रामे
प्रेताः संग्रामे मृताः प्राणन्तो जीवन्तः संजाता: संवृत्ताः । कीदृशा इत्याह -
फलिनः फलवन्तः । 'फलवर्हाभ्यामिनच्' । अत एव नम्राः नमनशीला: रोचि
ष्णवः दीपनशीला: ये दुमास्तेषु सद्रवः सदनशीला: । '३१३९ । दाधे सि
–।३।२।१५९॥' इत्यादिना सढ़े रुः ॥
 
१५८८ - भ्रमर कुला Ssकुलोलवण-सुगन्धि-पुष्प-तरुस्
 
तरुण-मधूक - सम्भव - पिशङ्गित-तुङ्ग - शिखः ॥ २१ ॥
 
१ इदं नर्दटकवृत्तम्- 'यदि भवतो नजी भजजला गुरु नर्दटकम्' इति लक्षणात् ।