This page has not been fully proofread.

तथा लक्ष्य रूपे कथानके 'सीता-संशोधन' नामकविंशतितमः सर्गः-४६७
 
ब्रह्मणः सर्ववेदित्वात् कथं शङ्का स्यात् अत्राधानं हेतुः शङ्कात्यागश्च
हेतुमान् । अस्मिन् लिङ् निमित्ते क्रियातिपत्तौ भूते लुङ् । अत्रानाधानक्रियाया
स्तद्विरुद्वादानोपनिपातादतिपत्तिर्गस्यते । अथवा नाहमवकल्पयामि यदीर्द पर
गृहोषिताया अग्निप्रवेशशोधनं युक्तं न्याय्यं तत् भवान् किं चित्रम करिष्यत्
विस्मयनीयं कृतवान् । एवं राज्ञः लोकस्य व्यवस्थार्थं विशेषे प्रवर्तनातू । '२८०२ ।
अनवक्कुत्यमर्षयोरकिंवृत्तेऽपि ।३।३।१४५।' इत्यत्रापिशब्दात् किंवृत्तमनवकृतिश्च
लिङ्कनिमित्तं तस्मिन् लिङ्निमित्त क्रियातिपत्तौ भूते लङ् । अन्न चित्रीकरणक्रि-
तद्विरुवस्याचित्रीकरणस्योपनिपातादतिपत्तिर्गम्यते । यदि भवान्
परीक्ष्य सीतायाः परिग्रहणमकरिष्यत् लोकोऽपि तथाकरिष्यत् ॥
प्रधानानुयायित्वाल्लोकस्येति दर्शयन्नाह -
 
याया अतिप
 
१५८२ - प्रावर्तिष्यन्त चेष्टाश् चेर्द-याथातथ्य-वत् तव ॥
अनुशास्ये त्वया लोके रामाऽवस्तरां ततः १५॥
 
प्रावर्तिष्यन्तेत्यादि – चेद्यदि तव लोकव्यवस्थाकारिणश्चेष्टाः कर्माणि आया-
थातथ्यवत् यथा अज्ञाना असमीक्ष्यकारितया प्रवर्तन्ते तवर्तिप्यन्त तथाप्र-
वर्तनात् त्वया आनुशास्ये व्यवस्थायां स्थाप्ये लोके हे राम ! ताश्चेष्टा अवत्स्यस्तरां
अतिशयेन प्रावर्तिप्यन्त न च तव प्रवृत्ताः । अत्र रामचेष्टाप्रवर्तनं हेतुः लोकचेष्टाम-
वर्तनं च हेतुमत् । तस्मिन् लिङ्गनिमित्ते क्रियातिपत्तौ भूते भविष्यति लङ् । अत्रापि
परीक्ष्यस्वीकरणलक्षणक्रियायास्तद्विरुद्धपरीक्षितोपादानानतिपत्तिः । अयाथातथ्य-
वदिति वतिप्रत्ययान्तं क्रियाविशेषणम् । १७८९ । यथातथायथापुरयोः पर्यायेण
१७।४।३१।' इति नजः पर्यायेण वृद्धिः । प्रावस्तरामिति '२००२ । तिच
।५।३।५६।' इत्यातिशयनिकस्तरः । '२००४ । किमेत्तिङ्- ।५।४।११।' इत्याम् ।
'१४० । नश्छव्यप्रशान् । ८।३॥७।' इति रुत्वं पूर्वस्यानुस्वारः ॥
१५८३ प्रणमन्तं ततो राममुक्तवानि॑िति शङ्करः ॥
 
'किं नारायणर्मात्मानं ना ऽभोत्स्यत भवानजम्. १६
 
-
 
प्रणमन्तमित्यादि — ततो ब्रह्मवचनानन्तरं शङ्करो महादेवः वक्ष्यमाणं
वचनं राममुक्तवान् । प्रणमन्तं तमेव राममित्यर्थात् । किन्नाम तत् यथा
आत्मानम् नारायणमजं नित्यं अस्मिन् प्रादुर्भावे भवान्नाभोत्स्यत न बुद्धवान्
अपि तु तथाविधं कर्म कुर्वन् ज्ञातवानेव । अत्र नारायणानवबोधक्रियायाः
तद्विरुद्धबोधनोपनिपातादतिपत्तिः ॥
 
तदेव दर्शयन्नाह -
 
१५८४ - को ऽन्यो ऽकर्त्स्यर्दिह प्राणान्
 
हप्तानां च सुर-द्विषाम् ॥