This page has not been fully proofread.

४६६ भट्टि- काव्ये - चतुर्थे तिङन्त-काण्डे लक्षण-रूपेऽष्टमो वर्गः,
 
अन्वभाविष्यता ऽन्येन
 
मैथिली चेत् पतित्रता ॥ ११ ॥
 
नाकलस्यदित्यादि – मैथिली पतिव्रता सती चेद्यदि त्वत्तोऽन्येनान्वभावि-
प्यत परिभुक्ताभूत् । चिण्वदिट् । तदायं स्थाणुर्महादेवः शूली वृषभवाहनः व्यक्त.
चिह्नः सन् सन्निधिं सन्निधानं नाकल्प्स्यत् न कृतवान् स्यात् । '२३५२ तासि
च क्लृपः ॥७।२।६०।' इति चकारात् स्खे च परस्मैपदे ऌइ । अन्यानुभवनं हेतुः ।
स्थाण्वागमनं हेतुमत् । पूर्ववत् क्रियातिपत्तौ सृङ् । अत्रान्यानुभवनक्रियायास्त-
द्विरुद्धानन्यानुभवनोपनिपातातिपत्तिः ॥
 
१५७९ - आनन्दयिष्यदागम्य कथं त्वाम॑रविन्द-सत् ॥
 
राजेन्द्र ! विश्व - सूर् धाता चारित्र्ये सीतया क्षते. १२
आनन्दयिष्यदित्यादि - हे राजेन्द्र ! सीतया चारित्र्ये क्षते कुत्सिते कृते
सति एष धाता ब्रह्मा विश्वसूः सर्वस्य जगतः स्रष्टा अरविन्दसत् कमलासनः सन्
आगम्य त्वां कथमानन्दयिष्यत् दर्शनाशीर्वादादिभिरानन्दितवान् गर्हितमेतत् ।
युक्तम/गत्यानन्दयिनुमित्यर्थः । '२८००। विभाषा कथाम लिङ् च ।३॥३॥११४३′
इति कथंशब्दो गहां च लिनिमित्तं तस्मिन् क्रियातिपत्तौ भूते ऌ । अंत्रानन्द-
नक्रियायास्तद्विरुद्धचारित्र्यक्षतोपनिपातादतिपत्तिः ॥
 
१५८० - प्रणमन् ब्रह्मणा प्रोक्तो राजका ऽधिपतिस् ततः ॥
'ना, ऽशोत्स्यन् मैथिली लोके, नाऽऽचरिष्यदिँदं यदि
 
-
 
प्रणमन्नित्यादि — ततोऽनन्तरं राजकाधिपतिः राजसमूहानां पतिः । राजकं
राजसमूहः । १२४६। गोत्रोऽक्ष ।४।२।३१।' इत्यादिना वुज् । रामः प्रणमन्
ब्रह्माणमित्यर्थात् । ब्रह्मणा प्रोक्तः मैथिली यदि इदं वह्निप्रवेशनं नाचरिष्यत्,
नानुष्ठितवती तदा लोके दुराराधे नाशोत्स्यत् न शुद्धाभूत् किन्तु शुद्धा 'शुव
शौचे' दिवादिः । अत्राग्निप्रवेशाचरणं हेतुः अशोधनं च हेतुमत् । तयोर्हेतुहेतु-
मत्त्वे लिनिमित्ते क्रियातिपत्तौ भृते शृङ् । अत्राग्निप्रवेशाचरणक्रियायास्तद्विरुवा
चरणोपनिपातादृतिपत्तिः ॥
 
१५८१ - ना sमोक्ष्याम वयं शङ्का-
मिहा॑धास्यन् न चेद् भवान्, ॥
किं वा चित्रमिदं युक्तं,
भवान् यदकरिष्यत ॥ १४ ॥
 
नेत्यादि — चेद्यदि भवानिह सीतां नाधास्यत् न रोपितवान् । अन्तर्भावि-
तिज पयर्थः । तदा वयं किं शुद्धा नेति शङ्कां नामोक्ष्याम न मुक्तवन्तः ।
अॅमिन् वस्तुनि अग्निप्रमाणत्वेन लोको गृह्णीयादित्येवमुक्तवान् । अन्यथा