This page has not been fully proofread.

तथा लक्ष्य-रूपे कथानके 'सीता-संशोधन' नामैकविंशतितमः सर्गः ४६५
चित्रीकरणे च ।३।३।१५० ।' इत्यत्र '२८०५ । यच्चयत्रयोः ।६।३।१४८।' इत्यनुव-
तेते । यच्चयत्रशब्द उपपदे गम्यमानं चित्रीकरणं लिनिमित्तं तस्मिन् लिनि-
मित्ते क्रियातिपत्तौ सत्यां भूते ऌङ् । अत्र कृच्छ्राभिप्रायानुवर्तनक्रियायास्तस्त्यां
योषिदनुवर्तनं सामग्र्यभावाद्गम्यते । अन्यच्च स्वभावत एव योपित् कातरा भवति ।
ततश्च परगृहावस्थित्या दुष्टेति क्रोधादहमवक्षिप्तेति त्रासादस्यां विपन्नायां प्रच्छ-
नविषयं गतायां सत्यां किं किमालप्स्यथाः फलं नाहमवकल्पयामि । किं
नाम तत्र फलं यदाप्स्यसि नैवेत्यर्थः । '२८०२ । अनवकृत्यमर्पयोरकिंवृत्तेऽपि
।३।३।१४५।' इत्यत्रापिशब्दात् किंवृत्तमनवक्लृप्तिश्च लिङो निमित्तं तस्मिन् लिङ्-
निमित्ते क्रियातिपत्तौ सत्यां भविष्यति ऌङ् । अत्र फलप्राप्तिक्रियायास्तद्वदन्यसाम-
ग्रयभावात् गम्यते । 'किंकिलालप्स्यथाः फलम्' इति पाठान्तरं तदयुक्तं, '२८०३।
किंकिलास्त्यर्थेषु ।३।३।१४६।' इत्येतस्य लिनिमित्तत्वाभावात् ॥
 
अथवा नाहं दुष्टेत्यवगच्छन्त्या योषितस्त्रास एव नास्ति येन गर्हितं मरणमाच-
रेदिति दर्शयन्नाह -
 
१५७६ - यत्र यच्चा ऽमरिष्यत् स्त्री साध्वसाद् दोष-वर्जिता ॥
तदसूया - रतौ लोके तस्या वाच्या ऽऽस्पदं मृपा ॥९॥
यत्रेत्यादि — गर्हितमेतत् यच्च यत्र या भवति स्त्री दोपवर्जिता शुद्धचरित्रापि
साध्वसात् पतित्रासादमरिष्यत् मृताभूत् नैवेत्यर्थः । अदुष्टाया: साध्वसाभावात् ।
गर्हायामित्यत्र यच्चयत्रशब्द उपपदं गर्हा च लिङ्निमित्तं तस्मिन् लिनिमित्ते
क्रियातिपत्तौ सत्यां भूते वा ऌङ् । अत्र मरणक्रियायास्तविरुद्धसाध्वसे परनिपाता-
दतिपत्तिर्गम्यते । यदि हि त्रासात् म्रियेत दोष एव स्यादित्याह । तन्मरणं लोकेs-
स्मिन्नसूयारतौ सत्स्वपि गुणेषु दोषाविष्करणपरे तस्या अदुष्टाया योषितः वाच्या-
स्पदं वचनीयाश्रयं मृषा अलीकमेव दुष्टैवेयं मृपा अलीकमेव येन प्रच्छन्नम्-
तेति । यदि मरणमकरिष्यत् मृषावचनीयास्पदमभविष्यत् इति क्रियातिपत्तौ
योज्यम् । अन्यथा वाक्यमिदमशरीरकं स्यात् इदमवगच्छन्त्यानया प्रच्छन्नमरणं
नानुष्ठितम् ॥
 
१५७७ - अम॑स्यत भवान् यद्वद् तथैव च पिता तव ॥
 
नाऽऽगमिष्यद् विमान-स्थः साक्षाद् दशरथो नृपः. १०
अम॑स्यतेत्यादि – यद्वद्यथा भवानमंस्थत दुष्टेति ज्ञातवान् तथैतद्यदि नान्यथा
तदा तव पिता दशरथ: साक्षात्प्रत्यक्षो विमानस्थः सन् नागमिष्यत् नागतवान
स्यात् । अत्र दुष्टताभवनं हेतुः दशरथागमनं च हेतुमत् । तयोर्हेतुहेतुमचे लिङ्
निमित्ते क्रियातिपत्तौ सत्यां भूते ऌङ् । अत्र दुष्टताभवनक्रियायास्तविरुद्धादुष्ट
त्वोपनिपातादतिपत्तिः ॥
 
१५७८ - ना ऽकल्प्स्यत् सन्निधिं स्थाणुः
 
शूली वृषभ-वाहनः ॥