This page has not been fully proofread.

४६४ भट्टि-काव्ये -- चतुर्थे तिङन्त काण्डे लक्षण-रूपे 5ष्टमो वर्गः,
 
त्वयेत्यादि — किं नाम तच्छीलं तच्चरित्रं यदस्या: सीतायाः शीलं चिरं कालं
संवसता त्वथा नाद्रक्ष्यत नोपलव्धमेव । चेतोधर्मत्वानोपलव्धमिति चेत् किंवा
नाम चेष्टाः शीलनिबन्धनाः क्रिया: बहुनापि कालेन त्वया नादर्शिप्यन्त न
दृष्टा अभूवन् । अपि तु दृष्टा एव । '२८०१ । किंवृत्ते लटौ । ३ । ३ । १४४ । इति
किंशब्दो विभत्तयन्तो गर्दा च लिनिमित्तं तत्र गर्हायामित्येतदनुवर्तते । तस्मिन्
लिङ्गनिमित्ते क्रियातिपत्तौ भूने लुङ् । कर्मण्येव चिण्वदि । अत्र शीलानुपलब्धि-
क्रियायाश्च तद्विरुद्धचिरवासोपनिपातादृतिपत्तिर्गम्यते । तथाहि 'शीलं संवसता
ज्ञेयं तच्च कालेन भूयसा' इति ॥
 

 
१५७३ - यावज्जीवमंशोचिष्यो, ना ऽहास्यश् चेदिंदं तमः ॥
भानुर॑प्य॑पतिष्यत् क्ष्ममक्षोभिष्यत चेर्दियम् ॥ ६॥
यावदित्यादि – अन्यच्च लोकस्याज्ञानमूलं परगृहो पितेयेतावतैवापरिशुद्धेत्य
ज्ञानमुत्पन्नमिदं तमः अज्ञानं यदि त्वं नाहास्यः न त्यक्ष्यसि तदास्या वैलक्षण्येन
मरणादवइयं यावजीवमशोचिष्यः शोकमेष्यसि । अतो मयाभिधीयमानः स्वयं
च विमृशन् परिशुद्धा हीयमित्यवेहि येन न शोचिष्यसि । अत्र भविष्यद्ज्ञाना-
त्यागो हेतुः । यावज्जीवशोचनं हेतुमत् । तयोर्हेतुमचे लिनिमित्ते क्रियातिपत्तौ
सत्यां भविष्यति नित्यं ऌङ् । अत्राज्ञानत्यागक्रियायास्तद्विरुद्वोपदेशकत्वमर्षित-
ज्ञानोत्पादनिपातादतिपत्तिर्गम्यते । अन्यच अभूतवस्तूत्पादकसूचक उत्पातो भवति
न च तथाभूतोऽस्तीति दर्शयन्नाह । यदीयमक्षोभिष्यत् दुष्टचित्ताभूत् तदा भानु -
रपि क्ष्मां पृथ्वीमपतिष्यत् गतोऽभूत् । अत्रापि क्षोभो हेतुः भानुपतनं हेतुमत्
तयोर्हेतुहेतुमचम् । लिनिमित्ते क्रियातिपत्तौ सत्यां भूते ऌङ् । अत्र क्षोभक्रिया
यास्तविरुद्धाक्षोभोपनिपातादतिपत्तिः ॥
 
-
 
अन्यच्च सत्येन सवित्रा लोकपाला अदुष्टचित्तेपु संनिधीयन्त इति दर्शयन्नाह -
१५७४ - समपत्स्यत राजेन्द्र ! स्त्रैणं यद्य॑त्र चापलम् ॥
 
लोक-पाला इहा ऽऽयास्यंस् ततो ना ऽमी कलि-द्रुहः. ७
समेत्यादि — स्त्रीणामिदं खैणं चापलं चारित्रबन्धनं तदत्र सीतायां हे राजेन्द्र !
समपत्स्थत संपन्नमभूत् । ततः कारणादमी लोकपालाः एवमादयो मूर्तिमन्तः
कलिद्रुहः पापस्य द्रोग्धारः इव नायास्यन् नागता अभूवन् । चापलमत्र हेतुः
लोकपालागमनं हेतुमत् । ततो हेतुहेतुमचे लिनिमित्ते क्रियातिपत्तौ सत्यां भूते
ऌङ् । अत्र चापलाचरणक्रियायास्तद्विरुद्धचापलोपनिपातादतिपत्तिः ॥
 
अन्यच्च योषिसामान्येन नेयं द्रष्टव्येति दर्शयन्नाह -
१५७५ - आश्चर्य यच्च यत्र स्त्री कृच्छ्रे ऽवर्त्स्यन् मते तव, ॥
त्रासादस्यां विनष्टायां किं किमलप्स्यथाः फलम्. ८
आश्चर्यमित्यादि-
- यच्च यत्र या भवति स्त्री यत्तव कृच्छ्रे मते सङ्कटेsभि-
ये अवत् प्रवृत्तिमती तदाश्चयं चित्रमेव वर्तते नान्येति भावः । '२८०७ ।
 
-