This page has not been fully proofread.

;
 
तथा लक्ष्य रूपे कथानके 'सीता-संशोधन' नामकविंशतितमः सर्गः -- ४६३
 
-
 
-
 
इदानीं सीतारावणयोर्यच्चेष्टितमासीत् तच्चानेनावधार्य प्रकाशयन्नाह -
१५७० - अपि तत्र रिपुः सीतां ना ऽर्थयिष्यत दुर्मतिः ॥
 
1
 
क्रूरं जाव॑वदिष्यच् च जात्व॑स्तोष्यच्छ्रयं स्वकाम्. ३
अपीत्यादि-
( — तत्र रिपुः स भवान् रिपुः स रावणः । भवच्छब्दोऽर्थागम्यते
तेन ' १९६३ । इतराभ्योऽपि दृश्यन्ते ।५।३।१४।' इति ल । अपि वाढं नार्थयि
य्यत दुर्मतिरदुष्टचेता अभविष्यत् तदा सीतां बाढं नार्थयिष्यत । भार्या मम
भवेति न प्रार्थितवान् । २८०९। उताप्योः समर्थयोः ।३।३।१५२।' इति ।
अत्रापिशब्दो बाढार्थः लिङ्निमित्तं तस्मिन् लिङ्निमित्ते क्रियातिपत्ता सत्यां भूते
नित्यं लङ् । तत्र '२७९८ । वोताप्योः ।३।३।१४१।' इति अनुवर्तते । अन्नार्थन-
क्रियायाः तद्विरुद्धदुर्मतित्वोपनिपातादतिपत्तिर्गम्यते । अर्थनमर्थः याचनं । तत्क-
रोतीति णिच् । नाहमवकल्पयामि यद्यदुर्मतिरभविष्यत् क्रूरं परुषं जातु कदा-
चित् नावदिष्यत् नोक्तवान् । श्रियं विभूतिं स्वकामात्मीयां ईदृशी मे विभूतिरिति
नास्तोष्यत् न स्तुतवान् स्तुतवांश्च । '२८०४ । जातु-यदोर्लिंङ् ।३।३।१४७१' इत्यत्र
जातुशब्दोऽनवकृतिश्च लिङो निमित्तं तत्र । '२८०२ । अनवक्लृहमर्पयो:-
।३।३।१४५।' इति वर्तते । क्रूराभिधानक्रियाया विभूत्याः स्तवनक्रियायाश्च तद्वि-
रुद्धदुर्मतित्वोपनिपातादतिपत्तिः । केचित् 'लडपिजात्वोः' इत्येतदुदाहरन्ति तद्-
युक्तं तस्या लिङ्निमित्तत्वात् ॥
 
5
 
१५७१ - सङ्कल्पं ना sकरिष्यच् च तत्र्यं शुद्ध-मानसा ॥
सत्या॒ऽमर्षम॑वाप्स्यस् त्वं रामः सीता- निवन्धनम् ॥ ४॥
सङ्कल्पमित्यादि —–तत्रेयं शुभमानसेति नाहमवकल्पयामि यदीयं शुद्धमा-
नसा नाभविष्यत् । तत्र तस्मिन् रावणे इत्थं प्रीयमाणेऽपि सङ्कल्पमभिप्रायमक-
रिष्यत् कृतवती स्यात् । न च कृतवती शुद्धमानसत्वात् । सत्याममवाप्स्यस्त्व-
मिति । हे राम ! यद्यशुद्धमानसा अभविष्यत् तदा सीतानिबन्धनं सीताहेतुकं
अमर्ष क्रोधं सत्यसंभूतमवाप्स्यस्त्वं प्राप्तः स्याः नतु सत्यं यतः शुद्धमानसा ।
'२८०२। अनवक्लृप्त्यमर्षयोरकिंवृत्तेऽपि ।३।३।१४५।' इत्यत्र अनवक्लृप्त्यमर्षयोर्लि-
निमित्तं तस्मिन् लिङ्निमित्ते क्रियातिपत्तौ भूते वा लुङ् । तत्र '२७९८ । वोता-
प्योः—।३।३।१४१।' इत्यधिक्रियते । अन्त्र सङ्कल्पक्रियायाः सत्यामर्षक्रियायाश्च
तरुद्धशुद्ध मानसम्वोपनिपातादतिपत्तिः ॥
 
-
 
अन्यथास्मिन्वस्तुनि नाहमेवैकः प्रमाणं भवानपि प्रमाणमेवेति दर्शयन्नाह -
 
१५७२ - त्वया ऽद्रक्ष्यत किं ना ऽस्याः
 
शीलं संवसता चिरम् ॥
 
2
 
अदर्शिष्यन्त वा चेष्टाः
 
कालेन बहुना न किम् ॥ ५ ॥
 
.