This page has not been fully proofread.

भट्टि- काव्ये - चतुर्थे तिङन्त-काण्डे लक्षण-रूपेऽष्टमो वर्गः,
 
-
 
मामित्यादि — हे वह्ने ! यद्यहं दुष्टा तदा ज्वलितवपुः ज्वलितशरीरः सन् ।
मित्वाभावपक्षे रूपम् । हुपाण देहं मर्त्यलोकात् मोचय । यथा वा क्षतमलिनां
विशुद्धां सुहृदिव संरक्ष वा । आमन्त्रणे कामचारकरणे कोट् । एपाहं त्वां विधि-
वत् सम्यक् प्रासा ऋतुपु यज्ञेषु वसोः राज्ञः आज्यधारे । उदीर्णदीप्तिमालं उद्गत-
ज्वालासमूहं स्वामिति ॥
 
इति श्री जयमङ्गलाऽऽख्यया व्याख्यया समलंकृते श्री-भट्टिकाव्ये
चतुर्थे तिङन्त काण्डे लक्षण-रूपे सप्तमः परिच्छेदः ( वर्गः ),
तथा लक्ष्य रूपे कथानके 'सीता-प्रत्याख्यानं' नाम
विंशतितमः सर्गः ॥ २० ॥
 
एकविंशः सर्गः-
इतः प्रभृति ऌङमधिकृत्य विलसितमाह-तन्त्र लिनिमित्ते ऌ क्रियातिपत्तौ
भविष्यति भूते च हेतुहेनुमतोर्लिङित्येवमादिकं लिङो निमित्तं क्रियातिपत्तिश्च ।
कृतश्चिद्वैगुण्यात् क्रियाया अनिष्पत्तिः क्रियातिपत्तिः वैगुण्यं च विधुरप्रत्ययोपनि
 
पातात् सामग्र्यभावाच्च द्रष्टव्यम् ॥
 
१५६८ - समुत्क्षिप्य ततो वह्निर् मैथिलीं रामर्मुक्तवान् ।
'काकुत्स्थ ! दयितां साध्वीं त्वमा॑शङ्कप्यथाः कथम् १
समुत्क्षिप्येत्यादि- ततोऽनन्तरं मैथिलीं समुत्क्षिप्य हस्ताभ्यामाकाशे धृत्वा
वह्निर्देहवान् राममुक्तवान् । हे काकुत्स्थ ! सावीं पतिव्रतामपि दयितां असा.
ध्वीति त्वं यथाशङ्किप्यथाः शङ्कितवानसि तत्कथम् । गर्हितमेतत् न युक्तमाशङ्कितु-
मित्यर्थः । '२८००। विभाषा कथमि लिङ्ग च ।३।३।१४३ ।' इति । अत्र कथंशब्दो
गर्हायां च लिङो निमित्तम् । यतस्तत्र गर्हायामित्यनुवर्तते । तस्मिन् लिङ्-निमित्ते
क्रियातिपत्तौ ल भविष्यतीत्यधिक्रियते । अत्रासाधुत्वं क्रियायाः तद्विरुद्धसाधु-
त्वाभियोगोपनिपातादतिपत्तिर्गम्यते ॥
 
-
 
तदेव साधुत्वं दर्शयति-
१५६९ - ना sभविष्यदि॑ियं शुद्धा यद्य॑पास्यम॑हं ततः ॥
 
-
 
न चैनां, पक्षपातो मे धर्मादन्यत्र राघव ! ॥ २ ॥
नेत्यादि — यद्यहमेनां नैवापास्यं नैव रक्षितवान् ततोऽरक्षणादियं शुद्धा नाभ-
विष्यद् न भूता । येनैव मया रक्षिता तेनैवेयं शुद्धेति भावः । '२८१३ । हेतुहेतु-
मतोर्लिङ् ।३।३।१५६।' इत्यतः हेतुर्हेतुमांश्च लिङो निमित्तम् । तत्र पालनस्य
परिशुद्धेश्च हेतुहेतुमत्वे लिनिमित्ते क्रियातिपत्तौ सत्यां भूते नित्यं ऌङ् । तत्र
४२७९८। वोताप्योः ।३।३।१४१।' इति विकल्पेनाधिक्रियते । अत्रापालनोपनिपा-
दतिपत्तिर्गम्यते । तदतिपाताद्धेतुमतोऽपि पक्षपातात् त्वयैवमाचरितमिति
चेदाह । हे राघव ! धर्मादन्यत्र अधर्मे न मे पक्षपातोऽनुरागः ॥