This page has not been fully proofread.

तथा लक्ष्य-रूपे कथानके 'सीता-प्रत्याख्यानं' नाम विंशतितमः सर्गः - ४६१
 
-
 
मम कृताकृतं युक्तायुक्तं बुध्यस्व अवगच्छ । अत्र प्रार्थनायां लोटू । पूर्वत्र '२८२६ ।
समुच्चयेऽन्यतरस्याम् । ३ । ४ । ३ ॥ इति तस्य च यथायोगं हिस्वादेशः । वसन्निति
७२८२८ । समुच्चये सामान्यवचनस्य ।३।४॥५।' इत्यनुप्रयोगः । विद्यमानादीनां
वसतः सामान्यवचनस्यानुप्रयोगात् ॥
 
3
 
एवं पृथिव्यादीनि महाभूतानि कथयित्वा लक्षणमाह-
१५६४ - चितां कुरु च सौमित्रे ! व्यसनस्या ऽस्य भेषजम् ॥
रामस् तुष्यतु मे वा ऽद्य, पापां पुष्णातु वा ऽनलः ३४
चितामित्यादि – हे सौमित्रे ! व्यसनस्यास्य मिथ्यादूषणस्य भेषजं प्रतिक्रियां
चितां कुरु । विधौ लोट् । मम अग्नौ विशुद्धाया रामो नियोगतस्तुप्यतु । अनलो
वा मां पापां नियोगतः लष्णातु दहतु । दहन् मर्त्यलोकान्मोचयत्वित्यर्थः । निम-
त्रणे लोट् । 'लुष-प्रुष स्नेहन मोचन पूरणेपु' इति क्र्यादि: मोचने द्रष्टव्यः ।
अनेकार्थत्वाद्दाहे ॥
 
१५६५ - राघवस्य मतेना ऽथ लक्ष्मणेनाऽऽचितां चिताम् ॥
दृष्ट्वा प्रदक्षिणीकृत्य रामं प्रगदिता वचः ॥ ३५ ॥
राघवस्येत्यादि — अथ राघवस्य मतेनानुज्ञातेन '६२५। कस्य च वर्तमाने
।२।३।६७ । इति षष्ठी । '३०८९। मति- बुद्धि-पूजार्थेभ्यश्च ।३।२।१८८।' इति
वर्तमाने क्तः । तस्य वा मतेनानुज्ञया चितामाचितां रचितां दृष्ट्वा प्रदक्षिणीकृत्य
सीतां रामं प्रगदिता वचो गदितुं प्रवृत्ता ॥
 
-
 
,
 
१५६६ - प्रवपाणि वपुर् वह्नौ रामा ऽहं शङ्किता त्वया ॥
सर्वे विदन्तु शृण्वन्तु भवन्तः स प्लवङ्गमाः ॥३६॥
 
प्रवपाणीत्यादि – येऽत्र सन्निहिता देवादयः ते सर्वे सप्लवङ्गमाः वानरैः
सह भवन्तः विदन्तु चेतसा । शृण्वन्तु श्रोत्राभ्यां मद्वचनम् । हे राम ! त्वया
दुष्टेति शङ्किता अहं वह्नौ वपुः शरीरं प्रवपाणि नियोगतः प्रक्षिपाणि । निमन्त्रणे
लोट् । '२२३१ । आनि लोट् ।८।४।१६।' इति णत्वम् ॥
 
१५६७ मां दुष्टां ज्वलित-वपुः पुषाणं वह्ने !
संरक्ष क्षत-मलिनां सुहृद् यथा वा ॥
एषा ऽहं ऋतुषु वसोर् यथा ऽऽज्य-धारा
त्वां प्राप्ता विधि-वर्दुदीर्ण-दीप्ति- मालम् ॥ ३७॥
इति भट्टि-काव्ये तिङन्त-काण्डे लोटू-प्रदर्शनो नाम
विंशतितमः सर्गः ॥ २० ॥
 
-