This page has not been fully proofread.

४६०
 
भट्टि काव्ये – चतुर्थे तिङन्त-काण्डे लक्षण-रूपे सप्तमो वर्गः,
 
त्वं पुनीही त्यादि — हे वायो ! पुनीहि पुनीहीति जगत्रयं पुनः पुनः पुनामि
भृशं वा पुनामीत्यभिप्रायः । त्वं जगत्रयं पुनन् भूतानां देहेषु चरन् मम बुद्धि-
विप्लवं बुद्धेरन्यथात्वं विद्धि अवगच्छ । प्रार्थनायां लोट् । पूर्वत्र '२८२५ । क्रिया-
समभिहारे लोट् –।३।४।२॥ इति लोट् । तस्य परस्मैपदसम्बन्धी हिरादेशः ।
क्रियासमभिहारे द्विवचनम् । पुनन्निति यथाविध्यनुप्रयोगः । पूर्व स्मिन्नित्यनेन
पुनातेरनुप्रयोगः । तत्र हि क्रियासमुच्चयाभावात् ॥
 
१५६० - खमट, द्यामा टर्वीमिय॑न्त्यो ऽति-पावनाः ॥
 
यूयमा॑पो ! विजानीत मनोवृत्तिं शुभां मम ॥३०॥
खमित्यादि — यूयमापोऽतिपावना: अतिपवित्राः खमट द्यामट उवमट इति
वयमन्तरिक्षमटाम देवलोकमटाम भूर्लोकमटामेत्येवमभिप्रायाः सर्वत्राटन्त्यो मम
शुभां चित्तवृत्तिं विजानीतेति । अत्र प्रार्थनायां लोट् । पूर्वत्र तु आकाशादिकारकभे-
दात् अनेकाटनक्रियासमुच्चयः । ततश्च : '२८२६ । समुच्चयेऽन्यतरस्याम् ।३।४।३।
इति लोट् । अटेति समुच्चये सामान्यवचनस्येत्यनुप्रयोगः । आकाशायुपगामिनी-
नामटनक्रियाणां पुनरटनक्रियायाः सामान्याया अनुप्रयोगात् ॥
१५६१ - जगन्ति धत्स्व धत्स्वैति दधती त्वं वसुन्धरे ! ॥
 

 
अवेहि मम चारित्रं नक्तं - दिवम-विच्युतम् ॥३१॥
जगन्तीत्यादि — स्वं वसुन्धरे ! धत्स्त्र धत्स्वेति अहं पुनः पुनर्दधे भृशं
वा दूध इति एवमभिप्राया जगन्ति दुधती मम चारित्रं नक्तंदिवमविच्युतं
अस्खलितमवेहि । अत्र प्रार्थनायां लोटू । पूर्वत्र क्रियासमभिहारे तस्य चारम
नेपदसम्बन्धिनः स्वादेशः ॥
 
१५६२ - रसान् संहर, दीप्यस्त्र, ध्वान्तं जहि, नभो भ्रम, ॥
इतहमानस् तिग्मा॑ऽशो ! वृत्तं ज्ञातुं घटस्व मे ॥३२॥
 
रसानित्यादि — हे तिग्मांशो ! त्वमपि अहं रसान् भौमान् संहर संहरा-
मीति । दीप्यस्त्र दीप्ये । ध्वान्तं जहि हन्मि । नभो भ्रम भ्रमामीत्येवम-
भिप्रायः । ईहमानः जगत्यर्थक्रियासु चेष्टमानः मम वृत्तं चारित्रं ज्ञातुं घटस्व
यतस्व । अन्न प्रार्थनायां लोट् । पूर्वत्र '२८२६ । समुच्चयेऽन्यतरस्याम् ।३४।३।
इति तस्य च यथायोगं हिस्वादेशः । ईहमान इति '२८२८ । समुच्चये सामान्य-
वचनस्य ।३।४।५।' इत्यनुप्रयोगः । संहरेत्यादीनामीहतेः सामान्यवचनस्यानु-
प्रयोगात् ॥
 
१५६३ - स्वर्गे विद्यस्व, भुव्याऽऽस्व, भुजङ्ग-निलये भव ॥
 
एवं वसन् ममा ऽऽकाश ! संबुध्यस्व कृताऽकृतम् ३३
स्वर्ग इत्यादि
– त्वं चाकाश ! स्वर्गे विद्यस्व अहं विथे । भुवि आ
आसे। भुजङ्गनिलये पाताले भव भवामीत्येवमभिप्रायः सर्वत्र । वसन् तिष्ठन्