This page has not been fully proofread.

४५८ भट्टि काव्ये – चतुर्थे तिङन्त-काण्डे लक्षण रूपे सप्तमो वर्गः,
 
-
 
लज्जानतेत्यादि–लज्जया आनता वियोगदुःखस्य पूर्वानुभूतस्य स्मरणेन
विह्वला साखा दीना सा पत्युरन्तिकं गत्वा सीता रुदितवती ॥
१५५१ - प्राप्त चारित्र्य सन्देहस् ततस् तार्मुक्तवान् नृपः ॥
इच्छा मे -' नाऽऽददे सीते ! त्वामहं गम्यताम॑तः . २१
प्राप्तेत्यादि - ततोऽनन्तरं नृपो राम: 'रावणः किमस्यां खण्डितचारित्रशीलो
न वा' इति प्राप्तचारित्र्यसन्देहस्तामुक्तवान् । किमित्याह – हे सीते ! मे ममेय-
मिच्छा यत्त्वामहं नाद न गृह्णामि । २८१४ । इच्छार्येपु लिङ्लोटौ । ३।३३१५७।'
इति लोट् । अतोऽनिच्छातः कारणाद्यथेष्टं गम्यताम् ॥
 
किमिति नेच्छसीति चेदाह -
 
१५५२ - रावणाऽङ्क-परिश्लिष्टा त्वं हलू-लेख-करी मम ॥
 
मतिं वधान सुग्रीवे, राक्षसेन्द्रं गृहाण वा ॥ २२ ॥
रावणेत्यादि – रावणाङ्करलिष्टाहरणसमये रावणोत्सङ्गे स्थिता सती परि
लिष्टा परिमृदितवती स्वं मम हल्लेखकरी चेतःपीडनशीला । '२९३४ ॥ कृञो हेतु-
ताच्छील्य - ।३।२।२०।' इति टः । ९८८ । हृदयस्य हृल्लेखयदण्लास - । ६।३।५० ॥
इति हृदादेशः । कमहं शरणं याम्यामीति चेदाह-सुग्रीवे मतिं बधान बनीया:
उत्पादय । राक्षसेन्द्रं विभीषणं वा अनुगृहाण स्वीकुरु ॥
 
१५५३ - अशान भरताद् भोगान्, लक्ष्मणं प्रवृणीष्व वा ॥
 
.
 
कामाद् वा याहि, मुच्यन्तामाशा राम-निबन्धनाः २३
अशानेत्यादि — भरताद्वा भोगानशान भुङ्क्ष्व । सर्वत्र '२५५७ । हलः नः
ज्ञानज्झौ ।३।१।८३ ।' इति शानच् । लक्ष्मणं प्रवृणीष्व वा अङ्गीकुरु । 'वृञ् वरणे'
इत्यस्य रूपम् । '२५५८ प्वादीनां ह्रस्वः ।७।३।८० । १ । स्वेच्छया वा याहि
भवत्यै यत्र रोचते तत्र गम्यताम् । रामनिबन्धनाः पुनरपि रामो मे पतिर्भूयादि-
त्याशाः मुच्यन्तां त्यज्यन्ताम् ॥
 
किमिति चेदाह -
 
१५५४ - क्व च ख्यातो रघोर् वंशः, व त्वं पर - गृहोषिता, ॥
अन्यस्मै हृदयं देहि, ना ऽनभीष्टे घटामहे ॥२४॥
 
क्व चेत्यादि-परिशुद्धत्वात्सर्वत्र ख्यातः लोके विदितो रघोवंशः क्व । क्व च
त्वं परगृहोषिता जातकलङ्कस्वात् । द्वयमप्येतद्दूरं भिन्नम् । सर्वत्र विधौ ।
अतोऽन्यस्मै हृदयं देहि चित्तं परस्मै देहि । वयं अनभिमते विषये न घटामहे ।
निमन्त्रणे लोट् ॥
 
। १५५५ - यथो॒ष्टं चर वैदेहि !, पन्थानः सन्तु ते शिवाः,
 
कामास् तेऽन्यत्र तायन्तां, विशङ्कां त्यज मद्-गताम्.