This page has not been fully proofread.

तथा लक्ष्य-रूपे कथानके 'सीता-प्रत्याख्यानं' नाम विंशतितमः सर्गः-४५७
 
मुदत्यादि — गत्वा च काकुत्स्थं मुदा हर्षेण संयुहि मिश्रय । 'यु मिश्रणे' ।
तन्त्र गमनेन स्वयं च संमदं हर्ष प्रामुहि '३२४५ । प्रमदसंमदौ हर्षे ।३।३।६८।' ।
सर्वत्र प्रार्थनायां लोट् । हे देवि ! अस्मान्मुहूर्तादूर्ध्व राघवसन्निधिम् । राघवः
सन्निधीयते यस्मिन् प्रदेशे इति '३२७११ कर्मण्यविकरणे च ।३॥३।९३ ।' इति
किग्रत्ययः । तं त्वमुपेहि गच्छ ॥
 
1
 
१५४७ - ऊर्ध्वं मुहूर्तादह्रो ऽङ्ग ! स्वामिनी स्म भव क्षितेः ॥
राज-पत्नी - नियोग- स्थननुशाधि पुरी जनम् ॥१७॥
ऊर्ध्वमित्यादि-
इ- तथा मुहूर्तादूर्ध्वं क्षितेः स्वामिनी भव स्म । अङ्गेति सम्बो-
धनपदम् । अत्र '२८१९ । सेलो ।३।३॥१६५ । इत्यनेन प्रैषे लोट् । तत्र हि
' २८१७ । प्रैषातिसर्गप्राप्तकालेषु कृत्याश्च ।३।३।१६३।' इति और्ध्वमौहूर्तिक इति
च वर्तते । प्राप्तकालतायां लोट् । राघवसन्निधिं गन्तुं क्षितेः स्वामिनी भवितुं
प्राप्तकाला देवी । अन्यथा कालातिकमे मयि विरकेति रामो विरज्येत । अन्यच्च
इयमस्माकमाशंसा । त्वं राजपत्तीनियोगस्थं महादेव्याज्ञाकरणतत्परं पुरीस्थमयो-
ध्यावस्थितं जनं अनुशाधि विधेयीकुरु । आशिषि लोट् । १२४८७ । शा हौ-
।६।४।३५।' इति शादेशः । तस्य समानाश्रयत्वादसिद्धत्वे '२४२५ । हु-झलभ्यो
हेर्धिः ।६।४।१०१॥ ॥
 
१५४८ - उत्तिष्ठस्व मते पत्युर् यतखा sलङ्कृतौ तथा ॥
 
प्रतिष्ठस्व च तं द्रष्टुं द्रष्टव्यं त्वं महीपतिम् ॥१८॥'
उत्तिष्टखेत्यादि – तस्मात्प्रार्थयेऽहं पत्युर्मते अभिप्राये मत्समीपमागन्तव्य-
मिति उत्तिष्ठस्त्र तदर्थं घटस्व । '२६९१॥ उदोऽनुर्ध्वकर्मणि ।१।३।२४।' इति तङ् ।
तथा अलङ्कृतौ अलङ्करणे यतस्त्र यत्नं कुरु । लज्जया कदाचिन्नोत्सहेतेति पुनःपुन-
रभिधानं अविरुद्धम् । यथा स्नाहीत्यादि भूषयाङ्गमिति मन्यते तेन वारद्वयमुक्त-
मेवं अलङ्कृत्य त्वं महीपतिं दृष्टव्यं दर्शनार्हम् । '२८२२ । अर्हे कृत्यतृचश्च
।३।३॥१६९॥ इति अवश्यद्रष्टव्ये वा आवश्यके '३३१२ । कृत्याश्च ।३।३।१७१ । '
इति संद्रष्टुं प्रतिष्ठस्त्र गच्छ । प्रार्थनायां लोट् । '२६८९। समव-प्र-वि-भ्यः स्थः
।१।३।२२।' इति तङ् ॥
 
१५४९ - अनुष्ठाय यथाऽऽदिष्टं नियोगं जनकाऽऽत्मजा ॥
 
-
 
समारूढवती यानं पंऽशुक-वृताऽऽनना ॥१९॥
अनुष्ठायेत्यादि – श्लोकत्रयं एवमुक्ता भर्तुर्यथोद्दिष्टं नियोगं स्नानादिकमनु-
ष्टाय कृत्वा जनकात्मजा मां कश्चिन्माद्राक्षीदिति पट्टांशुकवृतानना यानं शिबिका-
मारूढवती पत्युरन्तिकं च गत्वा यानादवतीर्येत्यर्थात् ॥
 
१५५० - लज्जाऽनता विसंयोग-दुःख-स्मरण-विह्वला ॥
 
सऽस्रा गत्वा ऽन्तिकं॑ पत्युर् दीना रुदितवत्य॑सौ. २०