This page has not been fully proofread.

तथा लक्ष्य - रूपे कथानके श्री राम-संभवो नाम प्रथमः सर्गः -
 
२४ - आशीर्भिरभ्यर्च्य मुनिः क्षितीन्द्रं
प्रीतः प्रतस्थे पुनराश्रमाय ॥
तं पृष्ठतः प्रष्ठमियाय नम्रो
हिंस्रेषु-दीसाऽऽत - धनुः कुमारः ॥
 
M
 
१७
 
आशीर्भिरित्यादि — रामगमनस्यानुज्ञातत्वात् प्रीतो मुनिः क्षितीन्द्रं
राजानमाशीर्भिरभ्यर्च्य पूजयित्वा । आङ: शासेः विप्युपसंख्यानात् उपधाया
इत्वम् । प्रतस्थे पुनराश्रमाय आश्रमं पुनः प्रस्थितवान् । तिष्ठते: '२६८९॥
समय - ।१।३।२२॥' इत्यादिना लिटि तङ् ॥ प्रष्टम् अग्रयायिनं तं । ८२९१७ ।
प्रष्टोऽग्रगामिनि ।८।३।९२ ।' इति पत्वम् । पृष्ठतः पश्चात् इयाय कुमारः । इणो
गलि वृद्धिरायादेशः । '२२४३ । द्विर्वचनेऽचि ।१।१॥५९॥ इति स्थानिवद्भावा-
द्विवचनमिकारस्य । '२२९० । अभ्यासस्याऽसवर्णे ।६।४।७८।' इतीयङ् ।
नम्रोऽनुकूलः । हिंसनशीला इषवः शराः हिंस्रेषवः । आप्तमचिसंवादि
यद्धनुस्तत् । हिंस्रेषु दीप्तमाप्तं धनुर्यस्य कुमारस्येति विग्रहः । अत्र '८७० । धनु-
षश्च ।५।४।१३२।' इत्यनङ् न भवति 'समासान्तविधिरनित्यः' इति । दीप्रा-
धनुरिति पाठान्तरम् । दीप्रमस्त्रं धृष्टतया यस्य धनुषस्तही प्रास्त्रं धनुर्यसेति सः ।
कस्मिन्विषये । हिंस्रेषु नान्येषु । नम्रादयो '३१४७ । नमिकम्पि । ३।२।१६७७
इत्यादिना रप्रत्ययान्ताः ॥
 
२५ - प्रयास्यतः पुण्य - वैनाय जिंष्णो-
रामस्य रोचिष्णु-मुखस्य धृष्णुः ॥
त्रै मातुरः कृत्स्त्र - जितता॒ऽस्त्र-शस्त्रः
सध्य रतः श्रेयसि लक्ष्मणोऽभूत् ॥
 
·
 
प्रयास्यत इत्यादि — प्रयास्यतो गमिष्यतो रामस्य लक्ष्मणः सध्यङ् अभूत्
सहायीभूतः । 'सहाञ्चति' इति क्विन् अनुषङ्गलोपः '३६१ । उगिदचाम्-१७ । १७०।
इति नुम् । हल्ड्यादि-संयोगान्तलोपौ ' ३७७ । किन्प्रत्ययस्य ।८।२।६२ । इति
कुत्वं नकारस्य डकारः । '४२२ । सहस्य सधिः ॥६।३।१५॥ इति सध्यादेशः ।
पुण्यवनाय पुण्यहेतुत्वात्पुण्यं वनम् । गत्यर्थात् कर्मणि चतुर्थी । जिष्णोर्ज-
यशीलस्य '३११९। ग्ला-जि-स्थश्च -१३।२।१३९।' इति सुः । रोचिष्णु रोचन-
१-०८३७। पुरोगाऽग्रेसर-प्रष्ठाऽग्रतः-सर-पुरस्-सरा: ॥ इति ना० अ० । २-'५८५१
गत्यर्थकर्मणि द्वितीया-चतुर्थी चेष्टटा॒याम॑नध्वनि ।२।३२।१२॥ अध्वभिन्न गत्यर्थानां कर्मण्येते
स्तश्चेष्टायाम् । ग्रामं ग्रामान वा गच्छति ।" इति वै० भ० । ३-८४२ । जेता जिष्णुस्
च जित्वरः ।' ४ – ६६५ । विभ्राडू भ्राजिष्णु-रोचिष्णू,' । ५– '१०७०॥ धृष्टे धृष्ण
( धृष्णुर) वियातश्च', । ६ – १०७९ । यः सहाऽञ्चति सध्यङ्ग् सः इति सर्वत्र ना० अ० ।