2023-02-15 17:23:06 by ambuda-bot
This page has not been fully proofread.
८५६ भट्टि- काव्ये – चतुर्थे तिङन्त-काण्डे लक्षण-रूपे सप्तमो वर्गः,
गोरेतानि गव्यानि । सर्वत्र गोरजादिप्रत्ययप्रसङ्गे यत् । पञ्च गव्यानि समाहृतानीति
पात्रादिदर्शनान्न ङीप् । ततः पवित्रीकृतकाया, सन्दीप्ते पावके हविर्जुहुधि । ततः
स्वामिनं गन्तुमनुष्ठितदेवकार्या सती त्यमालिम्प समालभस्व । ततो निवस्व
आच्छादय । '१०९२ । वस आच्छादने' अदादित्याच्छपो लुक् । 'धातुसकारस
परगमनम् । ततो धूपाय धूपितमात्मानं कुरु । धूपेरायप्रत्ययः । आविध्य च खजं
मालां शिरस्याक्षिप । '१२५७ । व्यध ताडने' इयान २४१२ । हिज्या ।६॥१६।
इत्यादिना सम्प्रसारणम् । रत्वान्यामुञ्च विन्यस्वत्ययमर्थवशात् क्रियाक्रमो दृष्टव्यः ।
यथा देवदत्तं भोजय स्त्रापय उद्वर्तयेति । किंच संरोधजं तमः अस्वतन्त्रीकरणजं
शोकं छिन्धि अपनय । हैमीं शिविकां सौवर्णयानमारोह अधितिष्ट । सर्वत्र भर्तु-
र्नियोगकरणे लोट् । तामारूढा द्विपां मनोरथान् हृदये स्थितानभिग्रायान् जहि
नाशय । हो परतो '२४३ ॥ हन्तेर्जः ॥६।४।३६॥ ॥
12
१५४३ - तृणेदु त्वद्-वियोगोत्थां राजन्यानां पतिः शुचम् ॥
भवताद॑धियुक्ता त्वमत ऊर्ध्वं स्व- वेश्मनि ॥ १३ ॥
तृणेवित्यादि — गतायां त्वयि राजन्यानां क्षत्रियाणां पती रामः शुचं शोकं
त्ववियोगोत्यां त्वद्वियोगप्रभवाम् । २९१६ । सुपि स्थः ।३।२।४॥ इति कः । 'उदः
स्थाम्तम्भोः पूर्वस्य' इति पूर्वसवर्णः । तृणेदु हिनस्तु । अतः अस्मात्कालावं
का स्ववेश्मनि अयोध्यायां अधियुक्ता त्वं भवतात् भूयाः । '२१९७। तुह्यो:-
।७॥३५।' इति तातङ् ॥
१५४४ - दीक्षस्व सह रामेण त्वरितं तुरगऽध्वरे, ॥
दृश्यस्व पत्या प्रीतेन प्रीत्या प्रेक्षस्व राघवम् ॥१४॥
दीक्षवेत्यादि —तुरगाध्वरे अश्वमेधे रामेण सह त्वरितं दीक्षस्त्र दीक्षिता
भूयाः । आशिपि लोट् । प्रीतेन पत्या दृश्यस्व दृष्टा भव । इहापि कर्मणि लोह ।
प्रीता च सती राघवं त्वं प्रेक्षस्व ॥
१५४५ - अयं नियोगः पत्युम् ते, कार्या नाऽत्र विचारणा ॥
-
भूषया ऽङ्गं, प्रमाणं चेद्, रामं गन्तुं यतस्व च ॥ १५॥
अयमित्यादि- - तव पत्युरयं नियोगः यत्कृतः स्नानादिव्यापारः । अत्र
वस्तुनि विचारणा न कार्या किमेवं न वेति । एतत्प्रमाणं चेत् भूपयाङ्गं स्नानादि-
पूर्वकमलकरु । रामं गन्तुं यतस्त्र ।
१५४६ - मुदा संयुहि काकुत्स्थं,
स्वयं चा ऽऽनुहि सम्पदम् ॥
उपेह्यूर्ध्व मुहूर्तात् त्वं
>
देवि ! राघव-सन्निधिम् ॥ १६ ॥