2023-02-15 17:23:04 by ambuda-bot
This page has not been fully proofread.
तथा लक्ष्य-रूपे कथानके 'सीता-प्रत्याख्यानं' नाम विंशतितमः सर्गः - ४५३
१५३० - मयुं वध्या भट-वध-कृतं वाल-वृद्धस्य राजन् !,
शास्त्राऽभिज्ञाः सदसि सु-धियः सन्निधिं ते क्रियासुः,
संरंसीष्ठा : सुर- मुनि गते वर्त्मनि प्राज्य-धर्मे,
संभुत्सीष्ठाः सु-नय - नयनैर् विद्विषामीहितानि.' ३०
इति भट्टि-काव्ये तिङन्त-काण्डे लिङ्-विलसितो
नामैकोनविंशति-तमः सर्गः ॥
मन्युमित्यादि-
-अन्यच्च हे राजन् ! बालानां वृद्धानां च । सर्वोgar far
षैकवद्भवतीति । वालाश्च वृद्धाश्च बालवृद्धम् । तस्य मन्युं शोकम् । भटवधकृतं
भटानां पितृपुत्रादीनां च यो वधः तत्कृतम् । वध्याः प्रियवचनार्थप्रदानादि-
भिरपनेष्यसि । शास्त्रार्थज्ञाः शास्त्रार्थकुशलाः ते तव सदसि सभायां सन्निधिं
क्रियासुः । सन्निहिता भवन्त्वित्यर्थः । सुरैमुनिभिश्च गते सेविते वर्त्मनि मार्गे
प्राज्यधर्मे भूरिपुण्ये संरंसीष्ठा: रंस्यसे । द्विषां शत्रूणां इंहितानि चेष्टितानि सुन-
यनयनै शोभनाः ये नयाः तैरेव नयनैश्चक्षुर्भिरिवावस्थितैः सम्भुत्सीष्ठाः जानीयाः
ज्ञास्यसि । 'बुध अवगमने' एकाचो बशो भष् ॥
इति श्री जयमङ्गलाऽऽख्यया व्याख्यया समलंकृते श्री-भट्टिकाव्ये
चतुर्थे तिङन्त-काण्डे लक्षण-रूपे षष्ठः परिच्छेदः ( वर्गः ),
तथा लक्ष्य रूपे कथानके 'विभीषणाभिषेको' नाम
एकोनविंशतितमः सर्गः ॥ १९ ॥
विंशः सर्गः ।
इतः प्रभृति लोटमधिकृत्य तद्विलसितमाह - तत्र 'लोट् च' इति वचना-
द्विध्यादिष्वर्थेषु लोटू । ततोऽन्यत्रापि दर्शयिष्यति-
१५३१ - समुपेत्य ततः सीतामुक्तवान् पवना॒ऽऽत्मजः - ॥
दिष्ट्या वर्धस्व वैदेहि ! हतस् त्रैलोक्य-कण्टकः ॥१॥
समुपेत्येत्यादि — ततोऽनन्तरं पवनात्मजः रामाज्ञया सीतां समुपेत्य
समुपागम्योक्तवान् । हे वैदेहि ! रावणस्त्रैलोक्यस्य प्रतोदकत्वात् कण्टको हतस्तेन
दिष्ट्या प्रियवचनेन वर्धस्व नियोगतो वर्त्स्यसीति । निमन्त्रणे लोट् ॥
●
१५३२ - अनुजानीहि हन्यन्तां मयैताः क्षुद्र-मानसाः ॥
रक्षिकास् तव राक्षस्यो, गृहाणैतासु मत्सरम् ॥ २॥
अनुजानीहीत्यादि—अनुजानीहि अनुज्ञां प्रयच्छ । प्रार्थनायां लोट् । येन
मयैता राक्षस्यस्तव रक्षिका: क्षुद्रमानसाः पापाशया: हन्यन्तां विनाश्यन्ताम् ।
।