This page has not been fully proofread.

४५२ अट्टि- काव्ये -- चतुर्थे तित-काण्डे लक्षण-रूपे षष्ठो वर्गः,
 
लिङ् । इच्छार्थस्य धातोरुपपदत्वात् । यतः सर्व एव सुहृत् सुहृदं वृद्धि संस्
उदयस्थमिच्छेत् इच्छति । '२८१६ । इच्छार्थेभ्यो विभाषा वर्तमाने । ३।३।३६०॥
इति लिङ्ग ॥
 
१५२६ - वर्धिषीष्ठाः स्वजातेषु,
 
वध्यास् त्वं रिपु - संहतीः ॥
भूयास् त्वं गुणिनां मान्यस्,
तेषां स्थेया व्यवस्थितौ ॥ २६ ॥
 
वार्धपीष्ठा इत्यादि
- वजातेषु स्वजातिषु राक्षसेपु मध्ये त्वं वर्धिषीष्टाः
वृद्धिमान् भविष्यसि । आशिषि लिङ् । एवं वक्ष्यमाणेष्वपि सर्वत्र । रिपुसंतीः
शत्रुसमूहान् वध्याः विनाशयिष्यसि । '२४३३ । हनो वध लिङि ।२।४।१२॥
भूयाश्च गुणिनां मान्यः । श्रुतशीलवतां मानार्हश्च भविष्यासे । तेषां च युणिनां
व्यवस्थायां चिरकालं स्थेयाः स्थास्यसि ॥
 
१५२७ - धेयास् त्वं सुहृदां प्रीतिं,
वन्दिपीष्ठा दिवौकसः ॥
सोमं पेयाश् च, हेयाश् च
 
हिंस्रा हानि-करीः क्रियाः ॥ २७ ॥
 
धेया इत्यादि —त्वं सुहृदां प्रीतिं धेयाः जनयिष्यसि । दिवौकसो देवान्व-
न्दिपीष्ठाः प्रणंस्यसि । सोमं पेयाः पास्यसि । तथा हिंस्राः परोपवातिकाः हानि.
करी: अपचयहेतुकाः क्रिया: हेयाः लक्ष्यसि ॥
 
-
 
."
 
१५२८ - अवसेयाश् च कार्याणि धर्मेण पुर वासिनाम् ॥
अनुरागं क्रिया राजन् ! सदा सर्व गतं जने ॥ २८ ॥
अवसेया इत्यादि – पुनः । पुरवासिनां पौराणां कार्याणि धर्मेणावसेवाः
समाप्स्यसि । '१२२२। पोऽन्तकर्मणि' । हे राजन् ! अत्र जने अनुरागं सर्वगतं
सर्वव्यापिनं क्रियाः करिष्यसि ॥
 
१५२९ - घानिषीष्ट त्वया मन्युर्, ग्राहिषीष्ट समुन्नतिः ॥
 
रक्षोभिर् दर्शिषीष्ठास् त्वं, द्रक्षीरन् भवता च ते. २९
घानिषीष्टेत्यादि – मन्युः क्रोधः त्वया घानिषीष्ट हनिष्यते । चिण्वद्भावो
वृद्धिर्घत्वं च । समुन्नतिरभ्युच्चयः ग्राहिषीष्ट ग्रहीप्यते । रक्षोभिर्दर्शनपरैदर्शि
षीष्ठाः त्वं द्रक्ष्यसे । ते च राक्षसाः भवता दर्शनपरेण च द्रक्षीरन् । अचिण्व-
द्भावपक्षः ॥