This page has not been fully proofread.

तथा लक्ष्य-रूपे कथानके 'विभीषणाभिषेको' नामैकोनविंशतितमः सर्गः -४५१
१५२१ - स भवान् भ्रातृ वद् रक्षेद् यथावंदखिलं जनम् ॥
 
3
 
न भवान् संप्रमुह्येच् चेदा॑श्वस्युश् च निशाचराः, २१
स इत्यादि – चेद्यदि भवान्न सम्प्रमुह्येत् मोहं न गच्छेत् तदा स भवान्
भ्रातृवत् यथा भ्रान्ना जनो रक्ष्यते तद्वत् अखिलं जनं यथावत् सम्यक् रक्षेत् ।
एते च निशाचरा आश्वस्युराश्वासं गच्छेयुः । '२८१३। हेतुहेतुमतोर्लिंङ् ।३।३।
१५६।' अत्र प्रमोहो हेतुः । जनरक्षणं निशाचराश्वासनं च हेतुमत् । श्वसेरदादि-
स्वाच्छपो लुक् । आश्वसेयुरिति पाठान्तरम् ॥
 
१५२२ - ततः स गतवान् कर्तुं भ्रातुर॑ग्नि-जल-क्रियाम् ॥
प्रोक्तवान् कृत कर्तव्यं वचो रामोऽथ राक्षसम् ॥२२॥
तत इत्यादि — ततो वचनानन्तरं भ्रातुरम्निक्रियां जलक्रियां च कर्तु गतवा-
न् । अथ कृतकर्तव्यं राक्षसं रामः वचः ग्रोवान् ॥
 
१५२३ - अम्भांसि रुक्म-कुम्भेन
सिञ्चन् मूर्ध्नि समाधिमान् ॥
'त्वं राजा रक्षसां लङ्का-
म॑वेक्षेथा विभीषण ! ॥ २३ ॥
 
अम्भांसीत्यादि - रुक्मकुम्भेन स्वर्णकलशेनाम्भांसि जलाने मूर्ध्नि सिञ्चन्
पातयन् । रामः प्रोक्तवानिति पूर्वेणान्वयः । हे विभीषण ! ( समाधिमान्
ध्यानवान् ) त्वमद्यप्रभृति रक्षसां राजा लङ्कामवेक्षेथाः कार्याकार्यनिरूपणेन
वक्ष्यसि ॥
 
१५२४ - क्रुद्धान॑नुनये: सम्यक्,
धनैर्लुब्धानुपार्जयेः ॥
मानिनो मानये: काले,
 
त्रस्तान् पौलस्त्य ! सान्त्वयेः ॥ २४ ॥
 
.
 
क्रुद्धानित्यादि – हे पौलस्त्य ! क्रुद्धाननुनयेः प्रसादयिष्यसि । ये लुब्धा-
स्तान् धनेनोपार्जये: दानेन गृहीष्यसि । मानिनः सरकारोचिते काले मानयेः
पूजयिष्यसि । त्रस्तान् भीतान् सान्त्वयेः समाश्वासयिष्यसि । सर्वत्र निमन्त्रणे
नियोगकरणे प्रार्थनायां वा लिङ् ॥
 
१५२५ - इच्छा मे परमा, नन्देः कथं त्वं वृत्र - शत्रु-वत्, ॥
इच्छेद्धिं सुहृदं सर्वो वृद्धि संस्थं यतः सुहृत् ॥२५॥ !
इच्छेत्यादि - इयं च मे इच्छा महती । यत्त्वं वृत्रशत्रुवदिन्द्र इव कथमा-
·नन्देः मुदितो भविष्यसि । '२८१४ । इच्छार्थेषु लिङ्लोटौ ।३।३।१५७१' इति