This page has not been fully proofread.

अट्टि-काव्ये -- चतुर्थे तिङन्त-काण्डे लक्षण-रूपे षष्टो वर्गः,
 
वान्यस्य–१६।४।६८।' इत्येत्वं न विकल्प्यते । यस्मात् पण्डितो जनः पृथग्जनवत्
अपण्डितवत् जातु कदाचिदपि न प्रमुह्येत् न मोहं यातीति सम्भावयामः ।
'२८०४ । जानुदोलिंङ् ।३।३।१४७ । इत्यनक्लृप्तौ लिङ् ॥
१५१८ - यच्च यत्र भवांस् तिष्ठेत्,
 
तत्रा ऽन्यो रावणस्य न,
 
४५०
 

 
यच्च यत्र भवान् सीदेन्
महद्भिस् तद् विगर्हितम् ॥ १८ ॥
 
यच्चेत्यादि - यत्र देशे काले वा भवांस्तिष्टेत् तत्र यच्च अन्यो रावणस्य कम्ति
टेन् अवस्थानं कः करिष्यति । जैतसम्भावयामः तस्य तत्र न्यूनत्वात् । अन्यस्मि-
नवलृप्तिः यच्छव्हेनोपपदेन योगात् '२८०५ । यच्चयत्रयोः ।३।३।१४८।' इत्यन-
वक्सौ भविष्यति लिङ्ग । यच्चेति निपातसमुदायो यच्छब्दस्यार्थे वर्तते । किं च
यत्र देशे काले वा यच्च भवान् सीदेत् अवसादं करोतीति महद्भिः पण्डितैः विग-
हितं निन्दितम् । गयां चेति सर्वलकाराणामपवादो लिङ्' । 'यच्चयत्रयोः' इत्य-
नुवर्तते । अनवकृताविति निवृत्तम् ॥
 
१५१९ - आश्चर्य, यच्च यत्र त्वां
 
प्रत्र्याम वयं हितम् ॥
 
.3
 
अपि साक्षात् प्रशिष्यास् त्वं
कृच्छ्रेष्विन्द्र पुरोहितम् ॥ १९ ॥
 
आश्चर्यमित्यादि- -- यत्र देशे काले वा यच्च यद्वयमपि त्वां हितं प्रब्रूयाम
तदाश्चर्यं विचित्रमेतत् । '२८०७ । चित्रीकरणे च ।३।३।१५० ।' इति लिङ्ग ।
'२८०५। यच्चयनयोः ।३।३।१४८। इति वर्तते । त्वामित्यकथितं कर्म । अतस्त्वं
कृच्छ्रेषु व्यसनेषु साक्षादिन्द्रपुरोहितं बृहस्पतिं प्रशिष्याः बाढ़ शिक्षयसि ।
२८०९। उताप्योः समर्थयोर्टिङ् ।३।३।१५२।' अपशब्दस्योपपदत्वात् समर्थत्वं
चानयोर्बाढमित्येतस्मिन् अर्थे । '२४८६ । शास इदङ्ग-हलोः । ६।४।३४।' । '२४१०॥
शासि-वसि - ।८।३।६० ।' इत्यादिना पध्वम् ॥
 
१५२० - कामो जनस्य - 'जह्यास् त्वं प्रमादं नैर्ऋताऽधिप ! ॥
उत द्विषोऽनुशोचेयुर् विप्लवे, किमु बान्धवाः ॥२०॥
 
काम इत्यादि — हे नैर्ऋताधिप रक्षसां नाथ ! त्वं प्रमादं जह्याः त्यज ।
अस्य जनस्य पौरस्य काम इच्छा । '२८१०। कामप्रवेदनेऽकच्चिति ।३।३।१५३ ।
इति लिङ् । कञ्चिच्छब्दस्याप्रयोगात् । कामप्रवेदनं च जनाभिप्रायप्रकाशनम् ।
अन्यच्च अस्मिन् विप्लवे विनाशे द्विषः शत्रवोऽपि उत अनुशोचेयुः अनुशोचन्ति
किम बान्धवाः । २८१९। उताप्योः समर्थयोर्लिङ् ।३।३।१५२॥ ॥