This page has not been fully proofread.

तथा लक्ष्य-रूपे कथानके 'विभीषणाभिषेको' नामैकोनविंशतितमः सर्गः ४४९
१५१३ - यज्ञ-पात्राणि गात्रेषु चिनुयाच् च यथा-विधि, ॥
 
जुहुयाच् च हविर् वह्नौ, गायेयुः साम सामगा:.' १३
यज्ञपात्राणीत्यादि-
- स एव यथाविधि यथाक्रमं यज्ञस्य पात्राणि सुगाढ़ी नि
गात्रेषु विचिनुयात् । हविराज्यं वहाँ जुहुयात् । सामगाः छन्द्रोगा: साम च
गायेयुः । सर्वत्र विधो लिङ ॥
 
१५१४ गत्वा ऽथ ते पुरीं लङ्कां
कृत्वा सर्वे यथोदितम् ॥
समीपेऽन्त्याऽऽहुतेः सा॒ऽस्राः
प्रोतवन्तो विभीषणम् ॥ १४ ॥
 
गत्वेत्यादि — अथानन्तरं ते मन्त्रिणः लङ्कां गत्वा यथोदितं च कृत्वा । अन्त्या-
हुतेर्मृताहुतेः अनन्तरं सास्राः सवाप्पाः विभीषणं प्रोक्तवन्तः ॥
१५१५ - कृतं सर्वं यथा॒द्दिष्टं, कर्तुं वह्नि-जल-क्रियाम् ॥
 
-
 
प्रयतेथा महाराज ! सह सर्वैः स्व-बन्धुभिः ॥१५॥
कृतमित्यादि – यथोद्दिष्टं यथाविहितं सर्वमस्माभिः कृतं । त्वमिदानीं भ्रातुर्व-
ह्रिक्रियां जलक्रियां च कर्तुं स्ववन्धुभिः सर्वैः सह प्रयतेथाः । प्रार्थनायां लिङ् ॥
१५१६ - अज्ञ-वन् नौत्सहेथास् त्वं,
 
-
 
धेया धीर त्वम च्युतम् ॥
 
,
 
स्थेयाः कार्येषु वन्धूनां,
 
हेयाः शोकोद्भवं तमः ॥ १६ ॥
 
अज्ञवदित्यादि — शोकादमवर्तमानं पुनराहुः । अज्ञवत् किं नोत्सहेथाः किम-
वसीदसि गर्हितमेतत् । '२८०१ । किं- वृत्ते लिङ्लुटौ ।३।४।१४४१' इति
गर्हायां लिङ् । इयं चास्माकमाशंसा । यत्तु धीरत्वं धैर्य अच्युतं [ अक्षतं ]
धेयाः धास्यसि । बन्धूनां च कार्ये स्थेयाः स्थास्यसि । शोकोद्भवं च तमो हेया-
स्त्यक्ष्यसि । सर्वत्राशिषि लिङ् । आर्धधातुकत्वात् '२३७४ । एङि ।६।४।६७॥
इत्यसंयोगादेरेत्त्वम् ॥
 
१५१७ – नाऽवकल्प्यमिदं, ग्लायेद् यत् कृच्छ्रेषु भवान॑पि ॥
न पृथग्-जन-वज् जातु प्रमुह्येत् पण्डितो जनः १७ ३
नावकल्प्यमित्यादि- – अन्यञ्च नावकल्प्यमिदं न सम्भाव्यमेतत् येन कृच्छ्रे-
षु दुःखेषु भवानपि ग्लायेत् ग्लानिं याति । अनवक्लृप्तौ असम्भावनायां '२८०२ ।
अनवक्लृप्त्यमर्षयोः–।३।३।१४५।' इत्यादिना लिङ् । सार्वधातुकत्वात् '२३७८॥