This page has not been fully proofread.

तथा लक्ष्य-रूपे कथानके 'विभीषणाभिषेको' नामैकोनविंशतितमः सर्गः-
दिना टेरयादेशः । द्विषतां च गणाः न्यञ्चन्तः नीचैरञ्चन्तः कृताः तिरस्कृताः ।
तथा नोऽस्माकं कुले अन्ये नाधिक्रियेरंश्च । आशंसायां कर्मणि लिङ् । कृपीरनिति
वा पाठः । आशिपि कर्मणि लिङ्ग ॥
 
१-४४७
 
१५०४ - स एव धारयेत् प्राणानौदृशे वन्धु - विप्लवे, 11
 
भवेददा॑श्वासको यस्य सुहृच्छतो भवादृशः ॥ ४ ॥
 
स एवेत्यादि — ईशे बन्धुविठवे बन्धुविनाशेऽपि स एव ग्राणान् धारयेन्
नियोगतो बिभृयात् । निमन्त्रणे नियोगकरणे लिङ् । यस्य भवादशः सुहृन्मित्रं
शक्त आश्वासकः सान्त्वयिता भवेत् । सम्भावनायां लिङ् ॥
 
१५०५ म्रियेयोर्ध्वं मुहूर्तार्द्धि, न स्यास् त्वं यदि मे गतिः ॥
आशंसा च हि नः, प्रेते जीवेम- दशमूर्धनि ॥ ५॥
म्रियेयेत्यादि — यदि मे मम गतिः शरणं त्वं न स्वाः न भवेः । लिङ् ।
तदा यस्मिन्मुहूर्ते रावणोऽपि नष्टः तस्मान्मुहूर्तादूर्ध्वं म्रियेय । नियोगतः प्राप्त
कालः । प्राणांस्त्यक्तवानहम् । अत्र प्राप्तकाले गम्यमाने '२८१८। लिङ् चोर्ध्व-
मौर्ति ।३।३।१६४।' इति लिङ् । तत्र हि प्रैषादयोऽनुवर्तन्ते । '२५३८।
म्रियतेर्लुङ्गलिडोश्च । १।३।६॥' इति तङ् । ततः सार्वधातुकत्वात् शः । हि यस्मा-
नोऽस्माकं नेयमाशंसा । यद्दशमूर्धनि दशानने प्रेते मृते त्वयि वाऽशरणे जीवेम
प्राणान् धारयिष्याम इति । अत्राशंसावचनस्योपपड़त्वात् लिङ् ॥
१५०६ - प्रकुर्याम वयं देशे गह्यं तत्र कथं रतिम् ॥
 
-
 
यत्र विंशति-हस्तस्य न सोदर्यस्य सम्भवः ॥ ६॥
प्रकुर्यामेत्यादि – यत्र देशे सोदर्यस्य भ्रातुर्विंशतिहस्तस्य न सम्भवोऽस्ति तत्र
कथं वयं गर्ह्या निन्द्यां रतिं प्रकुर्याम करिष्यामः । नैवेत्यर्थः । अत्र गर्हायामित्य-
विकृत्य ' २८००। विभाषा कथमि लिङ् च ।३।३।१४३।' इति कथमित्युपपदे
भविष्यति लिङ् ॥
 
-
 
१५०७ - आमन्त्रयेत तान् प्रहान्
मन्त्रिणोऽथ विभीषणः - ॥
गच्छेत त्वरितं लङ्कां,
राज- वेश्म विशेत च ॥ ७ ॥
 
आमन्त्रयेतेत्यादि – अथानन्तरं विभीषणः सदसि यैर्मत्रिभिः सह उत्थितः
तान्मत्रिणः प्रह्लानामन्त्रयेत कर्मसु नियोगतः संहितवानित्यर्थः । निमन्त्रणे नियो-
गकरणे लिङ्ग । तदेव दर्शयति । लङ्कां त्वरितं यूयं गच्छेत यात । गताश्च राज-
वेश्म विशेत च । अत्र विधौ प्रेषणे लिङ् । स हि सर्वलकाराणामपवादः ॥
१५०८ - आददीध्वं महाऽर्हाणि तत्र वासांसि स-त्वराः ॥
उद्दुनीयात सत्-केतून, निर्हरेताऽय-चन्दनम्
 
॥ ८॥