This page has not been fully proofread.

८५६ अद्वि-काव्ये–वतु तिन्त-काण्डे लक्षण-स्ले पो वर्गः,
 
दुर्गे दुरं वहति विपने कपड़े न के दायरे ! राज्यभारः अनूहः अन्यै-
रनविष्टितः सज् अजति जोयादि समर्पित । उस्मात् त्वया समाहि-
तेन राज्यभारी वोडव्य इति ॥
 
इति श्री जयमङ्गलाऽऽल्या व्याख्या समलंकृते श्री-भट्टिकाव्ये
मतुर्थे तिटन्त का लक्षण-रूपे पञ्चमः परिच्छेदः (वर्गः ),
तथा लक्ष्य-रूपे कथानके 'विभीषणप्रलापो' नाम
अष्टादशः सर्गः ॥ १८ ॥
 
एकोनविंशः सर्गः-
इतः प्रभृति लिङमधिकृत्य विलसितमाह - तत्र विध्यादिपु लिङ्ग । ततो.
अन्यत्रापि दर्शयिष्यति-
P
 
१५०१ - अपमन्युस् ततो वाक्यं पौलस्त्यो रामर्मुक्तवान् ॥
'अ-शोच्योऽपि व्रजन्न॑स्तं सनाभिर् दुनुयान् न किम्. १
अपमन्युरित्यादि - रातोऽनन्तरं पौलस्त्यो विभीषणः अपमन्युः अपगतो
मर्यस्य । प्रादिभ्यो धातुजस्य बहुत्रीहिर्वा चोत्तरपदलोपश्च । रामं वाक्यमुक्त-
वान् । देव ! किमेवमभिधत्से अशोच्य इति । यतः सनाभिः सगोत्रोऽस्तं
व्रजन् विनाशं गच्छन्नशोच्योऽपि सन् किं न दुनुयाद्वियोगेन अवश्यतया किं
नोपतापयेत् । निमन्त्रणे नियोगकरणे लिङ् ॥
 
१५०२ - तं नो देवा विधेयासुर् येन रावण वद् वयम् ॥
 
सपत्नांश चा ऽधिजीयास्म, संग्रामे च मृषीमहि २
तं न इत्यादि - युष्मद्वचनादात्मा मया स्थिरीकृतः किन्त्विदमाशंसे ।
तमुपायं नोऽस्माकं देवा विधेयासुः । '२३६२ । बु-मा-स्था ।६।४॥६६।' इत्यनु-
वृत्तौ '२३७४ । एर्लिङि ।६।४।६७।' इत्येकारादेशः । येनोपायेन रावणवत्
सपत्नान् वयमधिजीयास्म । 'उपसगंण धात्वर्थो बलादन्यः प्रतीयते' इति सक-
र्मकता । संग्रामे च मृषीमहि । लिङश्चेति लिङः किवान गुण: । आर्धधातुक-
त्वान सलोपः । सर्वत्रैवाशिषि लिङ् ॥
 
१५०३ - क्रियेरंश च दशाऽऽस्येन
यथा ऽन्येना ऽपि नः कुले ॥
देवद्यञ्चो नराऽहारा
न्यश्चचं द्विषतां गणाः ॥ ३ ॥
 
क्रियेरनित्यादि- - यथा दशास्येन नराहारा राक्षसाः देवयञ्चः देवैः सहा-
अच्छतः क्रियेनू कृताः । '४१८ । विष्वदेवयो-।६।३।१२।' इत्या