This page has not been fully proofread.

तथा लक्ष्य-रूपे कथानके 'विभीषण-प्रलापो' नामाष्टादशः सर्गः-
:–४४५
 
मूर्धजानित्यादि
- [ मूर्धजान् ] केशान्विलुञ्चन्ति स अपनयन्ति स्म ।
अतिविह्वलं अतिवैक्कृव्यं । गुणप्रधानो निर्देशः । कोशन्ति स्म फूत्कारं कुर्वन्ति
स्म । अन्तःपुराणीत्यर्थः । भर्तुश्चोपकाराणां मुहुरधीयन्ति स्म । '११२०
इक् स्मरणे' । '६१३। अधीगर्थ- ।२।३।५२॥ इति कर्मणि षष्टी । प्रमन्यु-
चेति क्रियाविशेषणम् । प्रकृष्टशोकमित्यर्थः । 'प्रमन्यवः' इति पाठान्तरम् । प्रकृष्ट-
शोका इत्यर्थः ॥
 
१४९७ - रावणस्य नमन्ति स्म पौराः सास्रा रुदन्ति च. ॥'
भापते स्म ततो रामो वचः पौलस्त्यमा॑कुलम् ॥३९॥
 
रावणस्येत्यादि – पौराञ्च रावणस्य नमन्ति स्म नमस्यन्ति । पादावित्यर्थात्
तत्सम्वन्धित्वात् । सास्त्राश्च सन्तः रुदन्ति च स्म । ततोऽनन्तरं रामः पौलस्यं
विभीषणं आकुलं वचो भाषते स्म उक्तवान् ॥
 
१४९८ - 'दातुः स्थातुर् द्विषां मूर्ध्नि यष्टुस् तर्पयितुः पितॄन् ॥
युद्धऽभग्नाऽऽविपन्नस्य किं दशाऽऽस्यस्य शोचसि ४०
 
-
 
दातुरित्यादि – दशास्यो दाता, द्विषां मूर्ध्नि स्थाता, यष्टा यज्ञानां, पितॄन्
तर्पयिता । १९५६ । तृप तृप्तौ' चुरादिः । युधि देवादीनां संग्रामेऽभग्नः अवि-
पन्नः । तस्यैवंविधस्य किं शोचसि । शोच्यमेव नास्ति । वर्तमाने लट् ॥
 
१४९९ - वोभवीति न सम्मोहो व्यसने स्म भवाहशाम् ॥
 
किं न पश्यसि, सर्वो ऽयं जनस् त्वाम॑वलम्वते ॥४१॥
बोभवीतीत्यादि — भवादृशां युष्मद्विधानां व्यसनेषु दुःखेषु सम्मोहः
अज्ञानं न बोभवीति अत्यर्थं न भवति । यङ्लुक रूपम् । एवं च सति स्वार्थो
न हीयते । यतः किं न पश्यसि । अयं सर्वो जनः त्वामवलम्बते 'त्वमेव स्वामी'
इति प्रतीक्षते ॥
 
१५०० - त्वम॑र्हसि भ्रतुर॑नन्तराणि
 
,
 
कर्तुं, जनस्या ऽस्य च शोक-भङ्गम् ॥
धुर्ये विपन्ने त्वयि राज्य-भारो
मज्जय॑नूढः क्षणदा- चरेन्द्र ! ॥ ४२ ॥
 
इति भट्टि-काव्ये तिङन्त-काण्डे लविलसितो
नामाऽष्टादशः सर्गः ॥
 
त्वमर्हसीत्यादि — तस्मात् भ्रातुरनन्तराण्यग्निसात्कारादीनि कर्तुं त्वमर्हसि
युज्यसे । अस्य च जनस्य शोकभङ्गं शोकापनयनं कर्तुं च । अन्यथा त्वयि
 
भ० का० ३८