This page has not been fully proofread.

४४४ भट्टि काव्ये – चतुर्थी तिङन्त-काण्डे लक्षण-रूपे पथमो वर्गः,
१४९३ - न गच्छामि पुरा लङ्का-
मा॑यु॒र् यावद् दधाम्य॑हम्, 11
कदा भवति में प्रीतिस्,
त्वां पश्यामि न चेद॑हम् ॥ ३५ ॥
 
न गच्छामीत्यादि –– यावदहमायुर्दधामि धारयिष्यामि । २७८३ । याव-
पुरानिपातयो ।३।३॥४॥ इति भविष्यति लट् । पुराशब्दोऽत्र भविष्यदा-
सत्तिमाह । प्रीतिर्हि लङ्काप्रवेश इति दर्शयन्नाह - चेद्यद्यहं त्वां जीवन्तं न
पश्यामि । वर्तमाने लट् । कड़ा कस्मिन् काले मे मम प्रीतिर्भवति भविष्यति 1
'२७८४ । विभाषा कदाकः ।३।३।५।' इति भविष्यति लट् ॥
१४९४ - ऊर्ध्व म्रिये मुहूर्तार्द्धि
 
"
 
विह्वलः क्षत-वान्धवः ॥
मन्त्रे स्म हितमा॑ख्यामि,
 
न करोमि तवा ऽप्रियम् ॥ ३६ ॥
 
-
 
ऊर्ध्वमित्यादि- मुहूर्तादूर्ध्व उपरि अहं म्रिये मरिष्यामि । क्षतवान्धव-
स्वात् विह्वलः सन् । अनेन मरणस्य निमित्तभूतं प्राप्तकालं लोडर्थ दर्शयति ।
तेन '२७८८। लिङ्ग चोर्ध्वमौर्तिके ।३।३।१९। इति लोडर्थलक्षणे भविष्यति
लट्र । लोडश्च प्रैपादकः । २५३८ । म्रियतेलुङलिङोश्च ।१।३।६॥' इति चका-
रात् शितश्चात्मनेपदम् । अन्यच्च मन्त्रे मन्त्रविपये हितमाख्यामि स्म आख्या-
तवानहम् । '२७७९। अपरोक्षे च ।३।२।११९।' इति लट् । ममाप्रियं मा कार्षी-
रिति । पृष्टः सन्नहं न करोमि तवाप्रियमिति न कृतवानसि । ' २७८२ । नन्वो-
विभाषा ।३।२।१२१॥' इति पृष्टप्रतिवचने लट् ॥
 
युग्मम् - ३७-३८
 
१४९. ५ - अन्तः पुराणि पौलस्त्यं पोराश् च भृश-दुःखिताः ॥
 
संश्रुत्य स्माऽभिधावन्ति हतं रामेण संयुगे ॥३७॥
अन्तःपुराणीत्यादि – अनन्तरं पौलस्त्यं रामेण हतं संश्रुत्य अन्तः पुराणि
पौराश्च दुःखिताः अभिधावन्ति स्म ढौकन्ते स्म । '२७७८ । लट् मे ।३।२।११८।
इति भूतानद्यतनपरोक्षे लट् ॥
 
१४९६ - मूर्धजान् स्म विलुञ्चन्ति,
क्रोशन्ति स्मा ऽतिविह्वलम् ॥
अधीयन्त्युपकाराणां
मुहुर भर्तुः प्रमन्यु च ॥ ३८ ॥