This page has not been fully proofread.

तथा लक्ष्य-रूपे कथानके 'विभीषण-प्रलापो' नामाटादशः सर्गः - ४४३
 
नेदानीमित्यादि — इदानीं त्वय्येवंभूते शऋ-यक्षेन्द्रौ न बिभीतः न भयं
कुरुतः । '२४९२। भियोऽन्यतरस्याम् ।६।४।११५।' इति इत्वाभावपक्षे रूपम् ।
न दरिद्वितः दरिद्रौ न भवतः । '२४८२ । इद्दरिद्रस्य १६३४।११४।' इति हलादौ
किति सार्वधातुक इत् । हप्तौ न गर्व जहितः परित्यजतः । २४९८ । जहातेश्च
।६।४।११६।' इतीत्वम् । न किश्श्रीतः क्लेशं नानुभवत: । '२४९७७ ई हत्यघोः
।६।४।११३॥' इतीत्वम् ॥
 
१४९० - त्वया ऽपि नाम रहिताः
कार्याणि तनुमो वयम् ॥
कुर्मश च जीविते वुद्धिं,
 
3
 
धिक तृष्णां कृत-नाशिनीम् ॥ ३२ ॥
त्वयेत्यादि — यद्वयं त्वया विना कार्याणि राज्याङ्गानि तनुमः प्रसारयि-
प्यामः । जीविते च बुद्धिं कुर्मः । तदिमां कार्ये जीविते च तृष्णां कृतनाशिनीं
धिक् । '२७९९ । गहयां लडपि-जात्वोः ।३।३११४२।' इति भविष्यति लट् ॥
१४९१ - तृणेह्नि देहमा॑ात्मीयं,
 

 
त्वं वाचं न ददासि चेत् ॥
द्राधयन्ति हि मे शोकं
स्मर्यमाणा गुणास् तव ॥ ३३ ॥
 
तृणेझीत्यादि – मम प्रतिवचनं न ददासि चेत् यदि त्वं तर्हि आत्मीयं
देहं तृणेह्नि हन्मि । '२५४५॥ तृणह इम् ।७।३।९२ । १ । हि यस्मात् स्वर्यमाणा-
स्तव गुणा: मम शोकं द्वावयन्ति दीर्घं कुर्वन्ति । णाविष्टद्भावेन '२०१६॥
प्रिय-स्थिर—।६।४।१५७।' इत्यादिना दीर्घशब्दस्य द्वाघादेशः ॥
 
१४९२ - उन्मुच्य स्रजमात्मीयां
मां सृजयति को हसन् ॥
नेदयत्या॑ासनं को मे,
 
कहि मे वदति प्रियम् ॥ ३४ ॥
 
उन्मुच्येत्यादि —– आत्मीयां स्रजं मालामुन्मुच्यापनीय देहात् हसन् परि-
तोषात् को मां सजयति स्रग्विणं करोति । णाविष्टवद्भावात् '२०२० । विन्मतो-
र्लुक् ।५।३।६५।' इति विनो लुक् । '२०१०। प्रकृत्यैकाच् ।६।४।१६३।' इति
टिलोपाभावः । को वा ममासनं नेदयति अन्तिकं करोति । अत्रापि णौ इष्टव-
वात् '२०२४ । अन्तिकबाढयोर्नेदसाधौ ।५।३।६३ । इति अन्तिकशब्दस्य
नेदादेशः । कर्हि कदा को मे प्रियं वदति वदिष्यति । '२७८४ । विभाषा कदा-
कर्त्योः ।३।३।५।' इति भविष्यति लट् ॥