2023-02-15 17:23:03 by ambuda-bot
This page has not been fully proofread.
४४२ भट्टिकाव्ये - चतुर्थे तिङन्त-काण्डे लक्षण-रूपे पन्चमो वर्गः,
त्यजन्ति । विपद्भुतं च त्वां हसन्ति । क्षुद्राः अल्पकायाः क्षोदयन्तीव क्षुद्रमि-
वाचक्षत इति । भुवने यो हि न्यकृतन्निलोकः स कथं क्षुद्र उच्यते । '२०१५)
स्थूल-दूर - ।६।४।१५६।' इत्यादिना पौ यणादिपरलोपः पूर्वस्य च गुणः ॥
१४८५ - शमं शमं नभस्वन्तः पुनन्ति परितो जगत् ॥
उजिहीपे महाराज ! त्वं प्रशान्तो न किं पुनः ॥ २७ ॥
शममित्यादि — नभस्वन्तो वायवः शमं शमं शान्त्वा शान्त्वा । '३३४३।
आभीक्ष्ण्ये णमुल ।३।४।२२।' । '२७६३ । नोदात्त ।७।३।३४।' इति वृद्धिप्रति-
षेधः । आभीक्ष्ण्ये द्वे भवतः । परितः सर्वतो जगत् पुनन्ति पवित्रयन्ति ।
प्रशान्ता अपि पुनर्भूत्वा जगत् पुनन्ति । हे महाराज ! त्वं पुन: प्रशान्तोऽपि
किं नोज्जिहीपे नोत्तिष्ठसि । 'ओहाङ् गतौ' इत्यभ्यासस्य '२४९६ । भृजामित्
१७।४।७६।'। '२४९७ । ई हल्यघोः-।६।१।१३।' इतीत्वम् ॥
१४८६ - प्रोर्णोति शोकस् चित्तं मे,
सत्वं संशाम्यतीव मे, ॥
प्रमार्टि दुःखमालोकं,
मुञ्चाम्यूर्ज त्वया विना ॥ २८ ॥
।
प्रोणतीत्यादि
— हे महाराज ! त्वया विना शोको मम चित्तं प्रोणति
आच्छादयति । सत्वं अवष्टम्भः संशाम्यतीव अपगच्छतीव । मां त्यजतीत्यर्थः ।
दुःखं च कर्तृ आलोकं प्रज्ञानं प्रमाष्टि अपनयति । अतस्त्वया विना ऊर्ज बलं
मुञ्चामि । अलसो भवामीत्यर्थः ॥
१४८७ - केन संविद्रते-नाऽन्यस् त्वत्तो वान्धव-वत्सलः ॥
विरौमि शून्ये, प्रोणमि कथं मन्यु- समुद्भवम् ॥२९॥
केनेत्यादि
- त्वत्तोऽन्यो बान्धववत्सलो नेति के न संविद्वते न जानते ।
' २६९९ । समो गमि - । १।३।२९॥ इति तङ् । '२७०१ । वेत्तेर्विभाषा ।७।१।७॥
इति रु । बन्धुरेव वान्धवः । प्रज्ञादित्वादण् । अतोऽहं शून्ये बन्धुविरहिते
विरौमि फूत्करोमि । कथं केन प्रकारेण मन्युसमुद्भवं शोकोत्पादं प्रोणमि
आच्छादयामि ॥
१४८८ - रोदिम्य॑नाथमा॑त्मानं वन्धुना रहितस् त्वया ॥
प्रमाणं नौपकाराणामेवगच्छामि यस्य ते ॥ ३० ॥
रोदिमीत्यादि-
त्वया बन्धुना रहितत्वादनाथोऽस्मीति आत्मानमेव रोदिमि
वां कृतकार्यम् । यस्य ते उपकाराणां प्रमाणमियत्तां नावगच्छामि ॥
१४८९
नैदानीं शऋ-यक्षेन्द्रौ विभीतो, न दरिद्रितः ॥
न गर्व जहितो दृसौ, न क्लिनीतो दशा॒ऽऽनन ! ॥३१॥
5