2023-02-15 17:23:03 by ambuda-bot
This page has not been fully proofread.
तथ । लक्ष्य रूपे कथानके 'विभीषण-प्रलापो' नामाष्टादशः सर्गः- ४४१
दंश-सञ्ज- स्वआँ शपि ।६।४।२५।' इत्यनुनासिकलोपः । हरिविष्णुः श्रियं गोपा-
यति आत्मन्येव कृत्वा रक्षति । देववन्धः प्रमोदन्ते हृप्यन्ति । धनोदयाश्विनी-
यन्ते नानारूपेणाद्भुतायन्ते मृते त्वयीति सर्वत्र योज्यम् ॥
विशेषकम् २४, २५, २६-
१४८२ विभ्रत्य॑स्त्राणि सामर्षा
रण-काम्यन्ति चा ऽमराः ॥
चकासति च, मांसाऽदां
तथा रन्ध्रेषु जाग्रति ॥ २४ ॥
विभ्रतीत्यादि – अमराः सामर्षा : सकोपाः अस्त्राणि विभ्रति धारयन्ति ।
रणकाम्यन्ति च आत्मनो रणमिच्छन्ति । आत्मेच्छायां काम्यच् । चकासति
च दीप्यन्ते च । जक्षित्यादित्वादभ्यस्तसंज्ञायां झेरदादेशः । तथा मांसादां
राक्षसानाम् । '२९७७ । अदोऽनने ।३।२।६८।' इति विद । रन्ध्रेषु व्यसनेषु
जाग्रति सावधाना भवन्ति ॥
१४८३ - चश्चर्यते ऽभितो लङ्कामुस्मांश चा ऽप्य॑तिशेरते, ॥
भूमयन्ति स्व-सामर्थ्य, कीर्तिं नः कनयन्ति च ॥२५॥
चञ्चर्यन्त इत्यादि — लङ्कामभितः बाह्यतोऽभ्यन्तरतश्च । '१९५६। पर्य-
भिभ्यां च ।५।३।१९॥ इति सर्वोभयार्थे तसिः । चञ्चूर्यन्ते गर्हितं चरन्ति ।
'२६३५ । लुप-सद - ।३।१।२४।' इति भावगर्हायां यङ् ॥२६३६ । घर फलोश्च
॥७॥४॥८७ ।' इत्यभ्यासस्य नुक् । '२६३७ । उत्परस्यातः ।७।४।८८।' इत्युत्वम् ।
अस्मांश्चापि अतिशेरते अतिशयिता भवन्ति च । स्वसामर्थ्य भूमयन्ति वर्ध-
यन्ति । बहूनां भाव इति '१७८४ । पृथ्वादिभ्य इमनिच् । ५।१।१२२॥'।'२०१७॥
बहोर्लोपो भू च बहोः ॥४।१५८॥ इति बहोर्भूरादेशः । इमनिजादिलोपश्च ।
भूमानं कुर्वन्तीति णिचि णाविष्ठवव्यातिपदिकस्येतीष्ठवद्भावात् टिलोपयणादिपर-
लोपः । विन्मतोर्लुगर्थमिति वचनाद्वा टिलोपः । किंच नोऽस्माकं कीर्ति कन-
यन्ति अल्पां कुर्वन्ति । अमरा इति योज्यम् । अल्पां कुर्वन्तीति णिचि णाविष्ट-
वद्भावाद् '२०१९ । युवा-ल्पयोः कनन्यतरस्याम् । ५।३।६४॥ इति कनादेशः ॥
१४८४ - दिशो व्यञ्जवते हास्
"
त्वत्- कृतां जहति स्थितिम् ॥
क्षोदयन्ति च नः क्षुद्रा,
हसन्ति त्वां विपद्-गतम् ॥ २६ ॥
दिश इत्यादि – हप्ताः सन्तः दिशो व्यनुवते व्याप्नुवन्ति । स्थितिं व्यवस्थां
स्वस्कृताम् । '१३७३ । प्रत्ययोत्तरपदयोश्च ।७।२।१८॥ इति स्वदादेशः । जहति