This page has not been fully proofread.

४४० भट्टि-काव्ये - चतुर्थे तिङन्त-काण्डे लक्षण-रूपे पञ्चमो वर्गः,
 
SUPPO
 
३।४।८३।' सिपस्थादेशः । अपरस्य '२४५० । ब्रुवः पञ्चानाम्- । ३।४।८४ । इति
तिपो णलादेशः । यद्यस्मावं क्रुद्धः सन् मां संसदि सभायां निराकृत्य पाद-
महारेण पुरा पूर्व त्यजसि व्यक्तवानसि २७८२ । पुरि लुङ् चास्मे ।२३।२॥२२॥
इति चकारालटू ॥
 
१४७७- हविर् जक्षिति निःशङ्को मखेषु मघवान॑सौ ॥
 
3
 
प्रवाति खेच्छया वायुरु॑द्गच्छति च भास्करः ॥१९॥
हविरित्यादि — असौ मघवान् इन्द्रः मखेषु यज्ञेषु हविराज्यादिकमधुना
जक्षिति भक्षयति । '२४७४ । रुद्रादिभ्यः ।७।२।७६ । इनीट् । वायुश्च स्वेच्छया
वाति गच्छति । 'पवते' इति पाठान्तरम् । पवित्रीकरोतीत्यर्थः । भास्करश्च यथे.
मुद्रच्छति उदेति ॥
 

 
१४७८ - धनानामशते यक्षा, यमो दाम्यति राक्षसान्, ॥
तनोति वरुणः पाशमि॑न्दुनौदीयते ऽधुना ॥ २० ॥
 
-
 
1
 
धनानामित्यादि – यक्षाः कुबेरादयः धनानामीशते [ प्रभवन्ते ]। स्वाभ्यं
ऱभन्ते इत्यर्थः । '१०८९। ईश ऐश्वर्ये' । यमोऽपि राक्षसान् दाम्यति वशीकरोति ।
वरुणः पाशं तनोति विस्तारयति । इन्दुनोदीयतेऽधुना । भावे लट् । अधुनेति
नर्वत्र योज्यम् । अणुनेति पाठान्तरं असंपूर्णत्वात् ॥
 
,
 
१४७९ - शाम्यत्यतु- समाहारस्, तपस्यन्ति चनौकसः ॥
नो नमस्यन्ति ते बन्धून्, वरिवस्यन्ति ना ऽमराः २१
शाम्यतीत्यादि — ऋतूनां समाहारः सम्भूयावस्थानं शाम्यति अपैति ।
वनौकसो वनवासिनो मुनयः तपस्यन्ति तपश्चरन्ति । '२३७१ । कर्मणो
रोमन्थ - ।३।१।१५।' इत्यादिना क्यङ् । तपसः परस्मैपदं च । ते त्वद्वन्धूनमरा
नमस्यन्ति न प्रणमन्ति । न वरिवस्यन्ति । नाप्रतिषेधेन परिचरन्ति ।
'२६७५॥ नमो वरिवश्चित्रङः क्यच् ।३।१।१९। ॥
 
१४८० - श्रीर् निष्कुष्यति लङ्कायां, विरज्यन्ति समृद्धयः ॥
न वेद तन्, न यस्याऽस्ति मृते त्वयि विपर्ययः २२
 
,
 
.
 
श्रीरित्यादि-लङ्कायां पुर्या अधुना श्रीर्निष्कुष्यति । 'कुष रोपे' । '२७७२।
कुषि-रजोः प्राचां श्यन् परस्मैपदं च ।३।१।१०।' समृद्धयश्च विरज्यन्ति अप-
यान्ति । सर्वथा तद्वस्तु न वेद न वेद्मि । '२४६४ । विदो लटो वा ।३।४।८३ । '
इति मिपो गळ् । यस्य त्वयि मृते न विपर्ययः नान्यथाभावः ॥
१४८१ - शक्तिं संस्वजते शक्रो, गोपायति हरिः श्रियम् ॥
 
"
 
देव-बन्द्यः प्रमोदन्ते, चित्रीयन्ते, घनो॒दयाः ॥२३॥
शक्तिमित्यादि- - शक्रः शक्तिं ग्रहरणमधुना संस्वजते गृह्णाति । '२३९६ ।