This page has not been fully proofread.

तथा लक्ष्य-रूपे कथानके 'विभीषण-मलापो' नामाष्टादशः सर्गः - ४३९
 
१६।१।८९ ।' इति वृद्धिः । अभ्यमीति पाठान्तरं तद्युक्तं छान्दसत्वात् । यतः
यमो बहुलं छन्दसि हलादावनन्तरे सार्वधातुके '२४४४॥ तुरु-स्तु-शम्यमः
सार्वधातुके ।७।३।९५३' इनीटू ॥
 
१४७३ - त्वम॑जानन्निदं राजनीडिषे स्म स्व-विक्रमम् ॥
 
दातुं नैच्छसि सीतां स्म, विषयाणां च नैशिपे १५
त्वमित्यादि — हे राजन् ! त्वमिदं यथोदितमजानन् स्वविक्रमीडिषे स्म
स्तुतवानसि । '२४४० । इंड-जनो च ।७।२।७८।' इति चकारात् सेशब्द-
स्यापी । एवं च कृत्वा त्वं सीतां दातुं नेच्छाम स्म नेष्टवानसि । विषयाणां
शब्दादीनां नेशिषे स्म विषयान्न जितवानसि । '२४३९ । ईश: से । ७१२७७'
इतीद्र । '६१३ । अधीग - । २।३।५२।' इति कर्मणि षष्टी । सर्वत्र '२७७९॥
अपरोक्षे च ।३।२।११९।' इति लट् ॥
 
१४७४ - मन्त्रे जातु वदन्त्यज्ञास्, त्वं तान॑प्य॑नुमन्यसे, ॥
 
कथं नाम भवांस तत्र ना ज्वैति हितमा॑त्मनः ॥ १६॥
 
मन्त्र इत्यादि — मन्त्रविषये अपण्डिताः मूर्खाः सन्तः जातु कदाचिदपि
बदन्ति गर्हितमेतत् । तानपि त्वमनुमन्यसे अनुमतवान् । इदमप्यतिगर्हितम् ।
'२७९९। गर्हायां लडपिजात्वोः ।३।३।१४२।' इति अपिजास्वोरुपपढ्योः काल-
सामान्ये लट् । कथमेतत् न्याय्यं यत्तत्र भवान् रावणः विद्वानपि नात्मनो
हितमवैति न विदितवान् । '२८०० । विभाषा कथाम लिङ् च ।३।३।१४३ ।
इति कथंशब्द उपपदे चकारात् गर्हायां लट् । तत्र भवानिति '१९६३ । इत
राभ्योऽपि दृश्यन्ते ।५।३।१४।' इति भवदादियोगे प्रथमान्तात् त्रल्प्रत्ययः ॥
१४७५ - अ - पृष्टो नु ब्रवीति त्वां मन्त्रे मातामहो हितम् ॥
'न करोमति पौलस्त्य ! तदा मोहात् त्वर्मुक्तवान् १७
 
,
 
अपृष्ट इत्यादि – किमस्मिन् काले युज्यत इति मन्त्रे मातामहो माल्यवान्
अपृष्टः सन् हितं नु ब्रवीति । हे पौलस्त्य ! त्वं पुनर्हितमकार्पोरिति माल्यवता
पृष्टं तदा तस्मिन् काले न करोमीति मोहादज्ञानादुतवान् । अत्र नुशब्दे नशब्दे
चोपपदे । '२७८० । ननौ पृष्टप्रतिवचने । ३ । २ ॥२०।' इति भूते धात्वर्थे ' २७८१॥
नन्वोर्विभाषा ।३।२।१२१॥ इति विभाषा लट्र ॥
 
१४७६ - त्वं स्म वेत्थ महाराज ! यत् स्माऽऽह न विभीषणः ॥
 
पुरा त्यजति यत् क्रुद्धो मां निराकृत्य संसदि. ॥१८॥
त्वमित्यादि-हे महाराज ! विभीषणो यदाह स्म उक्तवान् तत्त्वं न वेत्थं
स्म न विदितवानसि । किमेतेन हितमुक्तं न वेति । उभयत्र '२७७९॥ अप-
रोक्षे च ।३।२।११९।' इति लट् । तत्र पूर्वस्मिन् '२४६४ । विदो लटो वा