This page has not been fully proofread.

४३८
 
सट्टि - काव्ये -- चतुर्थे तिङन्त-काण्डे लक्षण रूपे पञ्चमो वर्गः,
१४६८ - समाश्वसिमि केना ऽहं, कथं प्राणिमि दुर्-गतः ॥
लोक-त्रय - पतिर् भ्राता यस्य मे स्वपिति क्षितौ. १०
समाश्वसिमीत्यादि — यस्य मम भ्राता लोकत्रयपतिः क्षितौ स्वपिति
सोऽहं केनोपायेन समाश्वसिमि शोकं त्यजामि । '३४७४ । रुदादिभ्यः ।७।२।७३॥
इती । दुर्गतो दुःखितः कथं केन प्रकारेण प्राणिमि जीवामि ॥
१४६९ - अहो जागर्ति कृच्छ्रेषु दैवं, यद् बल- भिज्जितः ॥
 
www
 
लुठ्यन्ति भूम क्लियन्ति वान्धवा मे स्वपन्ति च. ११
 
अहो इत्यादि — अहो इति विस्मये । कृच्छेषु दुःखेषु दैवं जागति अव
हितमित्यर्थः । नित्यं दुःखोत्पादनात् । यद्यस्मात्कारणादपरमपि मम बान्धवाः
बलभिजितः बलं भिनत्तीति बलभिदिन्द्रः तं जयन्तीति किप् । भूमौ लुट्य-
न्ति । 'रुठ - लुट लोठने' दिवादी । तथा क्लिद्यन्ति पूयन्ति । स्वपन्ति दीर्घनिद्रां
प्रवेशिताः ॥
 
१४७० - शिवाः कुष्णन्ति मांसानि,
भूमिः पिवति शोणितम्
दशग्रीव - सनाभीनां
 

 

 
समदन्त्य [मिषं खगाः ॥ १२ ॥
 
शिवा इत्यादि – दशग्रीवसनाभीनां दशग्रीवेण तुल्यगोनाणाम् । '१०१३ ।
ज्योतिर्जनपद-।६।४।८५॥ इत्यादिना समानस्य सभावः । मांसानि शिवाः
शृगालाः कुष्णन्ति । '१६१६ । कुष निष्कर्पे । भूमिः शोणितं पिबति । खगाः
पक्षिणः मांसशोणितव्यतिरिक्तं वसामज्जादिकं समदन्ति भक्षयन्ति ॥
 
१४७१ - येन पूत क्रतोर् मूर्ध्नि स्थीयते स्म महाऽऽहवे, ॥
 
:
 
तस्याऽपौन्द्रजितो दैवाद् ध्वां क्षैः शिरसि लीयते. १३
येनेत्यादि – येनेन्द्रजिता पूतक्रतोरिन्द्रस्य महाहवे महासमरे मूर्ध्नि अग्रतः
स्थीयते स्म स्थितम् । '२७७९ । अपरोक्षे च ।३।२।११९॥ इति लट् । विभीष
णस्य ह्यपरोक्षभूतानद्यतनत्वादर्थस्य । तस्यापीन्द्रजितः शिरसि दैवादामाद्धेतु
भूतात् ध्वांक्षैः काकैर्लीयते । वर्तमान एव भावे लट् ॥
 
१४७२ - स्वर्भानुर् भास्करं ग्रस्तं निष्ठीवति कृतता॒ऽह्निकः ॥
अभ्युपैति पुनर् भूतिं राम-ग्रस्तो न कश्चन ॥१४॥
 
स्वर्भानुरित्यादि – स्वर्भानु: राहु: भास्करं प्रस्तं प्रासीकृतं कृताह्निकः
कृताहारः निष्ठीवति स्वमुखान्निरस्यति । रामग्रस्तो रामामिभूतः पुनर्भूर्ति
नाम्युपैति कश्चन कश्चिदपि भूर्ति नाभ्युपैति प्राप्नोति । '७३ । एत्येधस्यूसु