2023-02-15 17:23:01 by ambuda-bot
This page has not been fully proofread.
तथा लक्ष्य-रूपे कथानके 'विभीषण-प्रलापो' नामाष्टादशः सर्गः - ४३७
भजन्तीत्यादि- - अन्यच्च ये स्वामिनो मदादवलेपात् न्यायवादिनां माल्य-
वत्प्रभृतीनां मते नावतिष्ठते । ८२६८९१ समव-प्र-विभ्यः स्थः ।१।३।२२॥
इति तङ् । ते पुरुषाः विपदस्तूर्णं भजन्ति अवसाद सेवन्ते । भजिरुभयपदी ।
सम्पदश्चातिक्रामन्ति त्यजन्ति ॥
१४६३ - अ-पथ्यमा॑यतौ लोभादामनन्त्यनुजीविनः ॥
I
प्रियं, शृणोति यस् तेभ्यस्, तमृच्छन्ति न सम्पदः ५
अपथ्यमित्यादि — प्रायेण ह्यनुजीविनः प्रहस्तादिसदृशाः । आयतावागा-
मिनि काले वृद्धावस्थायामपथ्यमनिष्टं फलं लोभेन तृष्णया वा प्रियमामनन्ति
उपदिशन्ति 'साधु इदम्' इति । तेभ्यो यः शृणोति तं सम्पदो न ऋच्छन्ति ।
अर्ते ऋच्छादेशः ॥
१४६४ - प्राज्ञास् तेजस्विनः सम्यक् पश्यन्ति च, वदन्ति च ॥
तेऽवज्ञाता महाराज ! क्लाम्यन्ति, विरमन्ति, च ॥६॥
5
प्राज्ञा इत्यादि — ये प्राज्ञाः तेजस्विनः अस्मद्विधाः सम्यगविपरीतं शास्त्रच-
-
क्षुषा पश्यन्ति वदन्ति च सम्यक् । हे महाराज ! अवज्ञातास्ते तिरस्कृताः क्लास्यन्ति
खिद्यन्ते । विरमन्ति च विमुखा भवन्ति । तदुवज्ञानफलमेतत् इति भावः ॥
१४६५ - लेढि भेषज-वन् नित्यं यः पथ्यानि कटून्यपि ॥
2
तदर्थं सेवते चा ऽऽठान्, कदाचिन् न स सीदति ॥ ७॥
लेढीत्यादि
— यस्तु स्वामी आदौ कटून्यपि पथ्यानि परिणामसुखानि
भेषजवदौषधमिव नित्यं लेढि श्रोत्रेन्द्रियेणानुभवति तदर्थं चाप्तानविसंवादिनः
सेवते स कदाचिन्नावसीदति इह च परत्र चावसन्नो न भवति ॥
१४६६ - सर्वस्य जायते मानः, स्व-हिताच् च प्रमाद्यति, "
वृद्धौ भजति चा ऽपथ्यं नरो येन विनश्यति ॥८॥
सर्वस्येत्यादि — प्रायेण वृद्धौ सत्यां सर्वो जनो मानी सञ्जायते वृद्धेश्चित्त-
विकारित्वात् । स्वहिताञ्च प्रमाद्यति हिताइष्टो भवति । अपथ्यं च भजति
सेवते । येनापथ्येन सेवितेन नरो विनश्यति ॥
A
१४६७ - द्वेष्टि प्रायो गुणेभ्यो यन्, न च स्त्रियति कस्यचित्,
वैरायते महद्भिश च शीयते वृद्धिमानपि ॥ ९ ॥
द्वेष्टीत्यादि - यद्यस्माद्वृद्धौ सत्यां प्रायेण गुणेभ्यः वृद्धसेवित्वादिभ्यः प्रभु-
द्वेष्टि । '५७५। क्रुध द्रुह- । १॥ ४ । ३७ । इति सम्प्रदानसंज्ञा । न च कस्यचित्
स्निह्यति प्रीयते । महद्भिश्च सह वैरायते वैरं करोति । '२६७३। शब्द - वैर-
।३।१।१७।' इति क्यङ् । तस्मात्कारणात् वृद्धिमानपि शीयते विनश्यति । शदेः
शिति शीयादेशः । '२३६२ । शदेः शितः । १।३।६० ।' इति तङ् ॥