2023-02-15 17:21:44 by ambuda-bot
This page has not been fully proofread.
तथा लक्ष्य रूपे कथानके श्री राम संभवो नाम प्रथमः सर्गः -
अहंयुनाऽथ क्षिति-पः शुभंयु-
रूचे वचस् तापस- कुञ्जरेण ॥
१५
स इत्यादि - स राजा तस्य मुनेस्तद्वचनं शुश्रुवान् श्रुतवान् सन् सुतविप्र-
योगमसहिष्णुरसहनशीलो मुमोह मोहमुपगतः । झुणोतेः '३०९७ । भाषायां
सद-वस-श्रुवः ।३।२।१०८ ।' इत्यनेन वसुः । सुतेन विप्रयोगमिति '६९४ । कर्तृ-
करणे कृता बहुलम् ।२।१॥३२॥ इति समासः । '६२७ । न लोकाव्यय-निष्ठा-
।२।३।६९॥ इति षष्ठ्याः प्रतिषेधः ॥ अथानन्तरम् । अहंयुना अहंकारवता ।
'१९४६ । अहं- शुभमोर्युस् । ५।२।१४०।' तापसकुञ्जरेण । १९०९ । तपःसहस्रा-
भ्यां विनीनी । ५।२।१०२।' इत्यनुवर्तमाने 'अण् च ' इति मत्वर्थेऽण् । तापसश्च
स कुअरश्चेति । '७४१ । वृन्दारक - ।२।१।६२।' इत्यादिना समासः । तेन क्षितिपो
राजा । शुभंयुः कल्याणवान् । पूर्ववद्युस् । वचो वक्ष्यमाणमूचे उक्तः । कर्मणि
लिट् । सम्प्रसारणम् । अहंयुनाथः इति विसर्गान्तं पाठान्तरम् । तत्र अहं-
यूनां क्षत्रियाणां नाथ इति योज्यम् ॥
२१ - मया त्वमा॑प्थाः शरणं भयेषु,
वयं याstatमह धर्म-वृद्ध्यै ॥
क्षात्रं द्विज-त्वं च परस्पराऽर्थं,
शङ्कां कृथा मा, प्रहिणु-स्व-सूनुम् ॥
मयेत्यादि - भयेपु त्वं शरणम् आप्याः प्राप्तोऽसि मया । आपेः कर्मणि
लुङ् । सिजुलोपः ॥ त्वयापि धर्मवृद्ध्यै धर्मोपचयाय वयमापस्महि प्राप्ताः ।
पूर्ववल्लुङादि । उत्तमबहुवचनम् । सिचो लोपाभावः । मकारस्याझलत्वात् ॥
तदित्थं क्षात्रं द्विजत्वं च धर्मवृद्ध्यै परस्परार्थं अन्योन्यप्रयोजनम् । 'कर्मव्यति-
हारे सर्वनाम्नो द्वे भवतः ' । 'समासवच्च बहुलम्' इति यदा न समासवत्
तदायम् ॥ तस्मान्मा शङ्कां कृथाः माकार्षीः । कथमस्मिन् संकटे पुत्रं नियोज-
यामीति । '२२१९ । माङि लुङ् ।३।३।१७५ । अडभावः । '२३६८। उश्च
।१।२।१२॥ इति कित्त्वाद्गुणाभावः । '२३६९ । स्वादङ्गात् ।८।२।२७।' इति
सिचो लोपः ॥ प्रहिणु प्रेषय । स्वं पुत्रम् । हिनोतेः प्रार्थनायां लोट् । श्रुः ।
अपित्त्वात् ङित्त्वम् । गुणाभावः । '२३३४ । उतश्च प्रत्ययात् ।६।४।१०६।' इति
हेर्लुक् । '२५३० । हिनु मीना ।८।४।१५।' इति णत्वम् ॥
१– '१०९५॥ अहङ्कारवान॑ंयु:, शुभंयु॒स्तु शुभाऽन्वितः ।' २ – 'स्युरेत्तरपदे व्याघ्र -
पुङ्गव-र्षभ-कुञ्जराः ॥ ११०५ । सिह-शार्दूल-नागाऽऽद्याः पुंसि श्रेष्ठाऽर्थ-गोचराः । इत्युभयत्र
ना० अ० ।