2023-02-15 17:23:01 by ambuda-bot
This page has not been fully proofread.
४३६ भट्टि- काव्ये – चतुर्थे तित-काण्डे लक्षण-रूपे पञ्चमो वर्गः,
-
बझन् सेवितवन्ति । सुरसमितिः सुरसमूहः नृपं जितारिं प्राशंसत् स्तुत.
वती ! अप्येषां अन्यजनानां दिगन्ताः रावणववाद्विगतपरिलवा निरुपद्रवा जाता
इत्यर्थात् । पौलस्त्यो विभीषणः विपन्नबन्धुः मृतभ्रातृकः शुचं शोकमजुपत्
सेवितवान् । जुपिस्तुदादावनुदात्तेत् ॥
इति श्री जयमङ्गलाऽऽख्यया व्याख्यया समलंकृते श्री भट्टिकाव्ये
चतुर्थे तिङन्त-काण्डे लक्षण-रूपे चतुर्थः परिच्छेदः ( वर्गः ),
तथा लक्ष्य-रूपे कथानके 'रावण-वन्धो' नाम
सप्तदशः सर्गः ॥ १७ ॥
अष्टादशः सर्गः-
इतः प्रभृति लटमधिकृत्य लड्डिलसितमाह
- तत्र वर्तमाने लट् । ततोऽन्य-
ग्रापि दर्शयिति -
१४५९ - व्यश्नुते स्म ततः शोको नाभि-सम्बन्ध-सम्भवः ॥
विभीषणसाच्चै रोदिति स्म दशा॒ऽऽननम् ॥१॥
व्यश्रुत इत्यादि- ततो वधादनन्तरं शोको विभीपणं व्यनुते स्म व्याप्त
वान् । '२७७८१ लट् स्मे । ३।२।११८ । इति भूतानद्यतनपरोक्षे लट् । नाभिस-
म्बन्धेन एकोदरसम्बधेन सम्भवो यस्य शोकस्य । असौ प्रवृद्धशोको विभीषणः
उच्चैर्महता शब्देन दशाननं नामग्राहं रोदिति स्म रुदितवान् ॥
तदेव दर्शयन्नाह ---
१४६० - 'भूमौ शेते दशग्रीवो महार्ह-शयोचितः, ॥
नैक्षते विह्वलं मां च, न मे वाचं प्रयच्छति ॥ २॥
भूमावित्यादि - महार्हंशयने उचितो यः स भूमौ शेते । शोकाविह्वलं मां
घ नेक्षते । मे वाचं प्रतिवचनं न प्रयच्छति न ददाति । '९९६ । दाणू दाने' ।
'२३६०। पा-घ्रा - ।७।३।७८।' इत्यादिना यच्छादेशः ॥
१४६१ - विपाकोऽयं दश-ग्रीव ! संदृष्टो ऽनागतो मया ॥
त्वं तेनाऽभिहितः पथ्यं किं कोपं न नियच्छसि ॥ ३॥
-
विपाक इत्यादि - हे दशग्रीव ! अयं विपाको मरणलक्षणं फलं अनागतो
भविष्यन्नेव मया संदृष्टः सम्यगुपलब्धः । इदानीं पश्यास तेन कारणेन योऽभि-
हितोऽसि 'सीतां मुञ्च' इति । अतः किमिति कोपं न नियच्छसि नापनयसि ।
नास्त्येव मम दोषः । निपूर्वो यमिरपनयने वर्तते ॥
१४६२ - भजन्ति विपदस् तूर्णमतिक्रामन्ति सम्पदः ॥
तान्, मदात नाऽवतिष्ठन्ते ये मते न्यायवादिनाम्. ४