This page has not been fully proofread.

तथा लक्ष्य रूपे कथानके 'रावण-चधो' नाम सप्तदशः सर्गः-
-
 
४३५
 
कम्पिता: । शक्र इन्द्रः संत्रासमविभः भृतवान् । पततां शिरसां पुनः पुनरुयात् ।
मायया विमोह्यायं राममजैपीदिति । विभतः लौ द्विवचनम् । '२५९६ । नृजा-
मित् ।७।४।७६ ।' धातोर्गुणः । पररूपत्वमिति लोपविसर्जनीयौ । मैत् क्षुभि
तश्च स शक्रः । उखेत्यादाविखिरिति पठ्यते । क्षितिश्च क्षुभिता चलिता ॥
१४५५ - ततो मातलिना शस्त्रम॑स्मंर्यत महीपतेः ॥
 
वधाय रावणस्य॒मं स्वयम्भूर्यदेकल्पयत् ॥१०९॥
तत इत्यादि - रावणस्य वधाय स्वयम्भूर्यदखमकल्पयत् कल्पितवान् ।
कृपेर्णो गुणः । '२३५०। कृपो रो लः ।८।२।१८॥ तदुस्स्रं मातलिना अस्मर्यंत
स्मारितम् । स्मरतेर्ण्यन्तात् कर्मणि लडू । मित्त्वान्द्रस्त्वम् । महीपतेरिति
'६१३। अधीगर्थ- ।२।३।५२॥ इति षष्टी ॥
 
कीडशं तदित्याह-
१४५६ नभस्वान् यस्य वाजेषु, फले तिग्मांशु पावकौ ॥
 
गुरुत्वं मेरु- सङ्काशं, देहः सूक्ष्मो वियन्मयः ॥११०॥
 
नभवानित्यादि — यस्य शस्त्रस्य वाजेषु [ पक्षेषु ] नभस्वान् वायुः सन्नि-
हितं फले [ शल्ये ] तिग्मांशुरादियः पावकश्च । यस्य गुरुत्वं मेरुवत् मेरोरिव ।
'दृढत्वं मेरुसङ्काशम्' इति पाठान्तरम् । तत्र मेरुस्थलगौरव सहशमित्यर्थः । सूक्ष्मो
देहो दिव्यचक्षुर्गम्यः वियन्मय आकाशस्वभावः ॥
 
१४५७ - राजितं गारुडैः पक्षैर् विश्वेषां धाम तेजसाम् ॥
 
स्मृतं तद् रावणं भित्त्वा सुघोरं भुव्य॑शाययत् १११
राजितमित्यादि — गारुडैः पक्षै राजितं शोभितम् । तेजसां विश्वेषां अनेक-
प्रकाराणां धाम स्थानम् । तदत्रं रामेण स्मृतं स्मृतिमागत्य सुधोरं रावणं भिवा
भुवि अशाययत् शायितवत् । रावणस्योदरं भित्त्वा भूमौ पातितवदित्यर्थः ॥
 
१४५८ - आबघ्नन् कपि-वदनानि संप्रसाद,
 
प्राशंसत् सुर-समितिर् नृपं जिता ऽरिम् ॥
अन्येषां विगत - परिप्ठवा दिगन्ताः,
पौलस्त्योऽजुपत शुचं विपन्न वन्धुः ॥ ११२ ॥
इति भट्टि-काव्ये तिङन्त-काण्डे लङ्-विलसितो नाम
सप्तदशः सर्गः ॥ १७ ॥
 
आबध्नन्नित्यादि — तस्मिन् हते कपिबदनानि कर्तृभूतानि तोषात् संप्रसाद-
१. 'अस्मार्यत महीपतिः' इति पाठान्तरम् । २-८५३ । पक्षो वाजस्त्रिषूत्तरे।' इत्यमर-
सिंहः । ३ – प्रहर्षिणीवृत्तम्-'नौज्रौगस्त्रिदशयतिः प्रदर्षिणीयम्' इति लक्षणात् ।