This page has not been fully proofread.

४३४ भट्टिकाव्ये - चतुर्थे तिङन्त काण्डे लक्षण-रूपे चतुर्थो वर्गः,
 
राक्षसं इत्यादि-राक्षसो रावणः सूतमतर्जयत् भतिवान् । 'हा पाप !
किं शत्रुसमीपाट्र्थं पराङ्मुखयसि' इति । इत्थं संतर्जितः सूतः पुनरपि रथम.
यत् ढौकितवान् । रामसमीपमित्यर्थात् । उभौ रामरावणौ बाणानिरास्येतां
क्षिप्तवन्तौ । 'उपसर्गादस्यत्यूह्योर्वा' इति तङ् । बुर्यानश्वानविध्यतां ताडितवन्तौ ॥
१४५०-उभाव॑कृन्ततां केतूनाव्यथेतामुभौ न तौ ॥
 
अदीप्येत।मुभौ घृष्णू, प्रायुजातां च नैपुणम् १०४
उभावित्यादि — तावुभौ रामरावणौ केतून् ध्वजानकृन्ततां छिन्नवन्तौ ।
तावुभौ नाव्यतां न व्यथितवन्तौ । उभावदीप्येतां शोभितवन्तौ । धृष्णूच
ग्रगल्भो नैपुणं कौशलं प्रायुञ्जातां प्रयुक्तवन्तौ ॥
 
१४५१ - उभौ मायां व्यतायेतां, वीरौ ना ऽश्श्राम्यतार्मुभौ ॥
मण्डलानि विचित्राणि क्षिप्रमा॑क्रामतर्मुभौ ॥ १०५॥
 
उभौ मायामित्यादि —- तावुभौ मायां व्यतायेतां विस्तारितवन्तौ । '५२३ ।
तायृ सन्तानपालनयोः' भ्वादौ । उभौ वीरौ नाश्राम्यतां न श्रान्तौ । युध्यमानौ
व तावुभौ मण्डलानि विचित्राणि मतिवैचित्र्यात् क्षिप्रमाक्रामतां भ्रान्तौ ।
'२३२१ । वा भ्राश । ३।१।७० ।' इति शप् ॥
 
१४५२-न चौभाव॑प्य॑ल॒क्ष्येतां, यन्तारावा॑हतार्मुभौ ॥
 
स्य॒न्दनौ स॒मपृच्येतामु॑भयोर् दीप्त-वाजिनौ ॥ १०६॥
 
न चेत्यादि - तावुभौ नाप्यलक्ष्येतां प्रेक्षकैर्न ज्ञातौ । 'अयं रामः अयं च
रावणः' इति । कर्मणि लङ् । यन्तारौ सूतौ । कर्मपदमेतत् । उभौ परस्परस्य ।
अहतामाहतवन्तौ । '२४२८ अनुदात्तोपदेश । ६ । ४ । ३७ ।' इत्यादिनानुनासिक-
लोपः । स्यन्दनौ रथो उभयोः रामरावणयोः दीप्तवाजिनौ चामरादिमण्डनात्
दीप्ता उज्ज्वला वाजिनो ययोः तयोः स्यन्दनौ समपृच्येतां संपृक्तौ । '१५५७।
पृची सम्पर्के' कर्मणि लङ् ॥
 
१४५३ - ततो मायामयान् मूर्ध्ना राक्षसो ऽप्रथयणे, ॥
 
रामेणैकशतं तेषां प्रावृश्यत शिलीमुखैः ॥ १०७॥
 
-
 
तत इत्यादि — ततोऽनन्तरं राक्षसः मायामयान् मायास्वभावान्मूर्ध्नः शिरां-
सि अप्रथयत् प्रदर्शितवान् । 'प्रथ प्रख्याने' इनि घटादौ । तेषां च शिरसां एक-
शतं एकाधिकं शतं रामेण शिलीमुखैः शरैः प्रावृत्र्यत छिन्नम् । कर्मणि लङ् ॥
१४५४ - समक्षुभ्रन्नुदन्वन्तः प्राकम्पन्त महीभृतः ॥
 
>
 
,
 
सन्त्रासमविभः शक्रः, भैखच्चे, क्षुभिता क्षितिः १०८
समक्षुम्नन्नित्यादि — छिन्नानां च पततां क्षोभादुदन्वन्तः सागराः समक्षु-
नन् सञ्खलिताः । १६१७ । क्षुभ सञ्चलने' इति क्र्यादिः । महीभृतः प्राकम्पन्त