This page has not been fully proofread.

तथा लक्ष्य-रूपे कथानके 'रावण-वधो' नाम सप्तदशः सर्गः- ४३३
वान् । 'उपसर्गादस्यत्यूयोर्वावचनम्' इति तङ् । तत्पाशुपतं नृपो रामः शक्रा-
त्रेणाजयत् जितवान् ॥
 
१४४५ - ततः शत- सहस्रेण रामः प्रौर्णोन् निशाचरम् ॥
वाणानाम॑क्षिणोद् धुर्यान्, सारथिं चाऽदुनोद् द्रुतम्.
 
तत इत्यादि — ततोऽनन्तरं रामः निशाचरं बाणानां शतसहस्रेण लक्षण
प्रौणत् छादितवान् । '२४४८ । गुणोऽपृते ।७।३।९११॥ इति गुणः । द्रुतं धुर्यान-
श्वान् । '१६२८। धुरो यड्ढकौ ।४।४।७७॥ इति यत् । अक्षिणोत् हतवान् ।
सारथिं चादुनोत् उपतापितवान् ।
 
१४४६-अदृश्यन्ता ऽनिमित्तानि,
माह्वलत् क्षिति-मण्डलम् ॥
रावणः प्राहिणोच्छू,
 
3
 
शक्किं चैन्द्रीं महीपतिः ॥ १०० ॥
 
.
 
अदृश्यन्तेत्यादि — रावणस्यानिमित्तानि अदृश्यन्त दृष्टानि । कर्मणि लङ् ॥
क्षितिमण्डलं प्राह्वलत् चलितम् । '६२ । हृल चलने' । रावणश्चानिमित्तानि दृष्ट्वा
ब्रह्मदत्तशूलं प्राहिणोत् क्षिप्तवान् । महीपतिः स राम ऐन्हीं शक्ति प्राहिणोत् ।
'१३३७॥ हि गतौ' स्वादिः ॥
 
१४४७ - ताभ्याम॑न्योन्यमा॑साद्य समवाप्यत संशमः ॥
 
लक्षेण पत्रिणां वक्षः क्रुद्धो रामस्य राक्षसः ॥ १०१ ॥
ताभ्यामित्यादि – ताभ्यां शूल-शक्तिभ्यामन्योन्यमासाद्य संलिप्य संशमः
संशमनम् । घणि '२७६३। नोदात्त –।७।३।३४।' इति वृद्धिप्रतिषेधः । समवाप्यत
प्राप्तः । कर्मणि लङ् । अनन्तरं क्रुद्ध राक्षसः पत्रिणां शराणां लक्षेण शतसह-
स्रेण रामस्य वक्षः अस्तृणादिति वक्ष्यमाणेन सम्बन्धः । छादितवान् । '२५५८॥
प्वादीनां ह्रस्वः ।७।३।८०।' ॥
 
१४४८- अस्तृणाधिकं रामस् ततो ऽदेवत सायकैः ॥
 
-
 
अक्काम्यद्रावणस्, तस्य सूतो रथर्मनाशयत् ॥ १०२ ॥
अस्तृणादित्यादि — ततोऽनन्तरं रामो राक्षसादधिकं अदेवत क्रीडितवान् ।
'५३३ । तेवृ देव देवने' इति भ्वादावनुदात्तेत् । स तथा देवबाणेनाहतो रावणः
अक्काम्यत् ग्लानिमुपगतः । तस्य तथाभूतस्य रावणस्य सूतः सारथिः स्वामिजी-
वितेच्छया रथमनाशयत् दूरं अपनीतवान् ॥
 
१४४९ - राक्षसोऽतर्जयत् सूतं पुनश् चाऽढौकयद् रथम् ॥
निरास्येतार्मुभौ वाणानु॑भौ धुर्यान॑विध्यताम् ॥१०३॥
 
भ० का० ३७