This page has not been fully proofread.

४३९ भट्टि-काव्ये - चतुर्थे तिङन्त - काण्डे लक्षण-रूपे चतुर्थी वर्गः,
 
-
 
१४४० –स स्फुरस्यदकर्षच् च सौमित्रेः शक्तिर्मग्र-जः ॥
 
असिञ्चदौपधीस् ता याः समानीता हनूमता ॥ १४ ॥
सस्फुरस्येत्यादि – अग्रजब रामः सौमित्रेः सस्फुरस्य उच्छ्रसतः शक्ति
हृदयलग्नामुद्दकर्षत् उत्कृष्टवान् । याश्च हनूमतौषध्यः समानीतास्ता असिञ्चत्
व्रणदेशेषु क्षारितवान् ॥
 
१४४१ - उदजीवत् सुमित्रा भूर्
 
."
 
भ्राता ऽऽश्लिष्यत् तमा॑यतम् ॥
सम्यङ् मूर्धन्युपाशिङ्क-
दुपृच्छच् च निरामयम् ॥ १५ ॥
 
उदजीवदित्यादि- ततः सुमित्राभूक्ष्मणः उदजीवत् प्रत्युज्जीवितवान् ।
तं च जीवितं आता रामः आयतं दीर्घकालमाश्लिष्यत् आलिङ्गितवान् । मूर्धनि
च सम्यगुपाशिद्धत् आघातवान् । '१७०१ शिघि आघ्राणे' । निरामयं च कुश.
लमपृच्छत् पृष्टवान् । 'किं व्यपगता पीडा' इति ।
 
."
 
१४४२ -- ततः प्रोदसहन् सर्वे योद्धुमभ्यद्रवत् परान् ॥
अकृच्छ्रायत च प्राप्तो रथेना ऽन्येन डरावणः ॥ ९६॥
तत इत्यादि — पुनः सर्व एव रामादयो योद्धुं प्रोदसहन् प्रोत्साहितवन्तः ।
* १९४६ । सह मर्षणे' इति चौरादिकः परस्मैपदी । 'आषाद्वा' इति णिज्न
भवति । नतु भौवादिकः तस्यात्मनेपदित्वात् । रावणश्चान्येन रथेन प्राप्तः सन्
परानुत्माहतोऽभ्यद्रवत् अभिमुखं गतवान् । अकृच्छ्रायत च कृच्छ्राय पापाय
कर्मणे क्रमितवान् । 'सत्रकक्षकष्टकृच्छ्रगहनेभ्यः कण्वचिकीर्पायामिति वक्तव्यम्'
इति क्यङ्ग । कण्वचिकीर्पा पापचिकीर्षा ॥
 
१४४३ - 'भूमि-ष्ठस्या ऽसमं युद्धं रथ-स्थेने ति मातलिः ॥
 
आहरद् रथम॑त्युग्रं स-शस्त्रं मघवा ऽऽज्ञया. ॥९७॥
भूमिष्टस्येत्यादि – भूमिष्टस्य रामस्य । ८२९१८ । अस्यास्व ।८।३।१७॥
इति मूर्धन्यः । रथस्थेन रावणेन सह युद्धमसममतुल्यमयुक्तमिति निरूपितवतो
मघवतः इन्द्रस्य आज्ञया मातलिः सशस्त्रं रथमत्युग्रमाहरत् आनीतवान् ॥
१४४४ - सो ऽध्यष्ठीयत रामेण, शस्त्रं पाशुपतं ततः ॥
 
निरास्यत दशऽऽस्यस्, तच्छेऽस्त्रेणा॑जयन् नृपः ॥
सोऽध्यष्टीयतेत्यादि–स रथो रामेणाध्यष्टीयत अध्यासितः । कर्मणि लङ् ।
८२४६२ । घुमा-स्था- । ६।४।६६ । इतीत्वम् । '२२७० । उपसर्गात्- । ८।३।६५।'
इत्यादिना षत्वमङ्ख्यवायेऽपि । ततोऽनन्तरं दशास्यः पाशुपतमस्त्रं निरास्यत क्षित-