This page has not been fully proofread.

तथा लक्ष्य-रूपे कथानके 'रावण-वधो' नाम सप्तदशः सर्गः-
४३१
 
ध्वस्तवान् । '१६०८। मन्थ विलोडने क्यादिः । नूरिभिश्च प्रभूतैः शरैरतुदत्
व्यथितवान् ॥
 
१४३६ - अश्वान् विभीषणो ऽतुभ्नात्
स्यन्दनं चाऽक्षिणोद् द्रुतम् ॥
ना ऽक्षुम्नाद् राक्षसो, भ्रातुः
शक्तिं चौदवृहद् गुरुम् ॥ ९ ॥
 
अश्वानित्यादि — विभीषणश्चाश्वानतुम्नात् हतवान् । '१६१८।१९। नभ तुभ
हिंसायाम्' । स्यन्दनं चाक्षिणोत् भनवान् । '१५६१ । क्षिणु हिंसायाम्' तनादौ ।
राक्षसो रावणः नाक्षुम्नात् न क्षोभं गतः । '१६१७॥ क्षुभ सञ्चलने' क्यादौ
गृह्यते न दिवादौ । भ्रातुर्विभीषणस्य कृते गुरुं शक्तिमुद्रवृहत् उद्यतवान् ।
'१४३५॥ वृहू उद्यमने' । तुड़ादौ गुरुमिति ' ५०२१ चोतो गुणवचनात् । ४

इति विकल्पेन डीम् ॥
 
१४३७ - तामा॑पतन्तीं सौमित्रिस् त्रिधाऽकृन्तच्छिलीमुखैः ॥
 

 
अशव्दायन्त पश्यन्तस् ततः क्रुद्धो निशाचरः ९१
तामित्यादि – तस्योपरि शक्तिमापतन्तीं सौमित्रिः शिलीमुखैत्रिधा त्रिय-
कारं अकृन्तत् छिन्नवान् । '१५२९॥ कृती छेदने' तुदादौ । यत्र प्रेक्षकाः पश्यन्तः
ते अशब्दायन्त शब्दं कृतवन्तः । 'वीर लक्ष्मण ! साधु कृतम्' इति । '२६७३।
शब्दवैर - ।३॥।२७।' इत्यादिना करोत्यर्थे क्यङ् । ततोऽनन्तरं निशाचरः क्रुद्धः
क्रोधं कृतवान् ॥
 
क्रुद्धो निशाचरः किं कृतवानित्याह-
१४३८ - अष्ट-घण्टां महा-शक्तिमु॑दयच्छन् महत्तराम्, 11
 
,
 
-
 
रामाऽनुजं तया ऽविध्यत्, स महीं व्यसुराश्रयत् ॥
अटेत्यादि
– अष्टौ घण्टा यस्यां महाशक्तौ तां शक्ति प्रभावेण महत्तरां महतीं
अतिशयेन महाप्रमाणां उदयच्छत् उद्यतवान् । '२७४२ । समुदाइभ्यो यमोऽग्रन्थे
।१।३।७५।' इति तङ् न भवति अकर्त्रभिप्रायत्वात् । तथा च करणभूतया रामा-
नुजं लक्ष्मणमविध्यत् विद्धवान् । राममनुजातवानिति । '३०१०) अनौ कर्मणि
।३।२।१००।' इति डः । स च लक्ष्मणो विद्धः व्यसुः विगतप्राणः महीमाश्रयत्
आश्रितवान् । भुवि पतित इत्यर्थः ॥
 
१४३९ - राघवस्याऽभृशायन्त सायकास, तैरुपद्रुतः ॥
 
ततस् तूर्णं दशग्रीवो रण-क्ष्मां पर्यशेषयत् ॥९३॥
राघवस्येत्यादि — तस्मिन् पतिते राघवस्य सम्बन्धिनो बाणा: अभृशायन्त
अभृशा भृशा अभवन् शीघ्रगतयो जाता इत्यर्थः । ततस्तैरुपद्रुतो दशग्रीवः तूष्णींभू-
त्वा रणक्ष्मां रणभूमिं पर्यशेषयत् त्यक्तवान् । '१९९४ । शिष असर्वोपयोगे' चुरादिः ॥