This page has not been fully proofread.

४३० भट्टि-काव्ये – चतुर्थी तिङन्त-काण्डे लक्षण हो चतुर्थी वर्गः,
 
व्योमेत्यादि-बागैव्योम प्राचिनुतां छादितवन्तौ । पृथिवीं अमाप
यतां कम्तिवन्तौ । '५२०१क्ष्मायी विधूने' । '२५७० । अर्ति-ही- । ७।३।३६ ।
इत्यादिना पुक् । अन्योन्यमभित्तां विदारितवन्तौ । '२४६९ । सोरलोप
।३।४।१११॥' चर्चेन च तकारः । तूर्ण शिक्षाः धनुषि कौशलााने मुहुरतनुत
विस्तारितवन्तौ ॥
 
१४३२ - समाधत्ता ऽऽसुरं शस्त्रं राक्षसः क्रूर - विक्रमः ॥
तदक्षरन् महासर्पान् व्याघ्र-सिंहांश् च भीपणान् ॥
 
समाधत्तेत्यादि-राक्षस: आसुरं शस्त्रं समाधत्त धनुष्यारोपितवान् । लौ
द्विवचनमभ्यासकार्यम् । २४८३ । आभ्यस्तयोः ।६।४।१२।' इत्याकारलोपः ।
'२५०१ । दुधस्तथोश्च ।८।२।३८।' इति भय्भावः । '२२८० । झपस्तथोर्थोऽधः
।८।२।४० ।' इति प्रतिषेधात् तकारस्य धत्वं न भवति । तत्संहितं सर्पादीन्
प्राक्षरत् मुक्तवत् ॥
 
१४३३ - म्यपेधत् पावकाऽस्त्रेण रामस् तद् राक्षसस् ततः ॥
अदीव्यद् रौद्रम॑त्युग्रं, मुसलऽऽद्य॑गलत् ततः ॥८७॥
 
न्यषेधदित्यादि —तदासुरं शस्त्रं रामः पावकास्त्रेण न्यषेधत् निषिद्धवान् ।
ततो राक्षसो रौद्रमस्त्रमत्युग्रमदीव्यत् क्षिप्तवान् । अत्र दिविर्गतौ वर्तते । ततो
रौद्रात् क्षिप्तात् मुसलादिग्रहरणमगलत् निर्गतवत् । '५८७१ गल अद्ने' ।
अनेकार्थत्वाद्धातूनां गलिरत्र निर्गमे वर्तते ॥
 
१४३४ - गान्धर्वेण न्यविध्यत् तत्
क्षितीन्द्रो, ऽथ नराऽशनः ॥
सर्व- मर्मसु काकुत्स्थ -
मौम्भत् तीक्ष्णैः शिलीमुखैः ॥ ८८ ॥
 
गान्धर्वेणेत्यादि— क्षितीन्द्रो रामः तद्द्रौद्गमस्त्रं गान्धर्वेणास्त्रेण न्यविध्यत्
ताडितवान् । अथ नराशनो राक्षसः शिलीमुखैर्बाणैः सर्वमर्मसु काकुत्स्थ मौम्भत्
पूरितवान् । '१४०७॥ उम्भ पूरणे तुदादौ ॥
 
१४३५ - ततस् त्रिशिरसं तस्य
 
,
 
प्रावृश्चल लक्ष्मणो ध्वजम् ॥
अमनात् सारथिं चाऽऽशु,
भूरिभिश चा ऽतुदच्छेरैः ॥ ८९ ॥
 
तत इत्यादि — ततोऽनन्तरं लक्ष्मणस्तस्य रावणस्य ध्वजं त्रिशिरसं त्रिशूला
छिनवान् । '१३७६ । ओश्व च्छेदने' तुदादौ । सारथिं चामझात्