2023-02-15 17:22:59 by ambuda-bot
This page has not been fully proofread.
तथा लक्ष्य रूपे कथानके 'रावण-वधो' नाम सप्तदशः सर्गः-
तत इत्यादि – ततो दशग्रीवः क्रुद्धः वनौकसां वानराणां प्राणानकुष्णात्
कुष्टवान् । '१६१६ । कुष निष्कर्षे' । रक्षांसि च राक्षसांचागोपायत् रक्षितवान् ।
'२३०३। गुपू-धूप - ।३।१।२८।' इत्यादिना आयप्रत्ययः । अरींश्च दिशोऽभाजयत्
प्रहितवान् ॥
>
१४२७ - आलोकयत् स काकुत्स्थम॑धृष्णोद्, घोरम॑ध्वनत् ॥
धनुर॑भ्रमद् भीमम॑भीषयत विद्विषः ॥ ८१ ॥
४२९
आलोकयदित्यादि —स दशग्रीवः काकुत्स्थमालोकयत् दृष्टवान् । धोरङ-
र्शनमवृष्णोत् धृष्टवान् । १३५० । जिषा प्रागल्भ्ये' इति स्वादिः । ताननुसरन्
घोरमध्वनत् ध्वनितवान् । रामं मारयामीति भीमं धनुरभ्रमयत् भ्रमितवान् ।
'२५६८ । मितां ह्रस्वः ।६।४।१२॥ मान्तत्वान्मित्त्वम् । ये विद्विषो न पलायिताः
तान भीषयत त्रासितवान् । '२५९५ । भियो हेतु-भये पुक् ।७।३।१४०१' । '२५-
९४ । भीस्म्योर्हेतुभये ।१।३।६८।' इति तङ् ॥
१४२८ - आस्कन्दलू लक्ष्मणं वाणैरत्यक्रामच् च तं द्रुतम् ॥
रामम॑भ्यद्रवज् जिष्णुर॑स्कुनाच् चेंषु-वृष्टिभिः ८२
आस्कन्द्रदित्यादि - जिष्णुर्जयशीलो दशग्रीवः लक्ष्मणं चाणरास्कन्दत्
बाधितवान् । '१०४८। स्कन्दिर् गतिशोषणयोः' । तं च लक्ष्मणं द्रुतमयक्रामत्
आक्रान्तवान् । शिति दीर्घः । अतिक्रम्य च राममभ्यद्भवत् अभिमुखं गतवान् ।
'१०११ । द्रु गतौ' । इषुवृष्टिभिरस्कुनात् छादितवान् । '१५७३ । स्कुञ् आवरणे
। '२५५५ । स्तम्भु-स्तुम्भु ।३।११८२।' इत्यादिना चकारात् वा ॥
१४२९ - अपौहद् बाण - वर्ष तद् भलै रामो निराकुलः ॥
,
प्रत्यस्कुनोद् दश - ग्रीवं शरैराशी- विषो॒पः ॥ ८३ ॥
अपौहदित्यादि —तद्वाणवर्ष रामो निराकुलः सन् भलैरपोहत् अपनीत -
वान् । 'उपसर्गादस्यत्यूयोर्वा' इति पक्षे तिप् । दशग्रीवं बाणैराशीविषोपमैः
दुःसहत्वात्प्रत्यस्कुनोत् प्रतीपं छादितवान् । अत्र भुप्रत्ययः ॥
१४३० - मण्डलायिटतां चित्रमंच्छित्तां शस्त्र संहतीः ॥
जगद् विस्मापयेतां तौ, न च वीराव॑सीदताम्. ८४
मण्डलानीत्यादि – चित्रमाश्चर्य मण्डलान्याटतां चक्रवद् भ्रान्तौ । शस्त्र-
संहती: अच्छित्तां छिन्नवन्तौ । जगत् विस्मापयेतां विस्मापितवन्तौ । '२५९६।
नित्यं स्मयतेः ।६।१।५७ ।' इत्यात्वम् । न च तौ वीरौ असीदतां अवसन्नौ ।
'२३६०। पा-घ्रा-।७।३।७८।' इति सीदादेशः ॥
,
१४३१ - व्योम प्राचिनुतां बाणैः, क्ष्माम॑क्ष्मापयतां गतैः ॥
अभित्तां तूर्णम॑न्यो॒ोन्यं शिक्षाश चा ऽतनुतां मुहुः ॥
A