This page has not been fully proofread.

४२८ भट्टि काव्ये - चतुर्थी तिङन्त-काण्डे लक्षण रूपे चतुर्थो वर्गः,
 
।६।१।२।' इति द्विर्वचने '२४४६ । नन्द्राः ॥६।१।३।' इति रेफो न विरुच्यते ।
शब्दस्य द्विवचनम् । '२६३० । गुणो यङ्लुकोः ।७।४५८२ । इति गुणः । '२२.
९८। अकृत्सार्वधातुकयोः ।७।४।२५।' इति दीर्घः ॥
 
युग्मम् - ७६१७७
 
१४२२ - व्यनाशयंस् ततः शत्रून् सुग्रीवाऽस्ता महीभृतः ॥
ततो व्यरसदंग्लायद॑ध्यशेत मही-तलम् ॥ ७६ ॥
व्यनाशयन्नित्यादि — ततोऽनन्तरं सुग्रीवास्ताः सुग्रीवेण क्षिता महीभृतः
पर्वता: शत्रुसैन्यं व्यनाशयन् मारितवन्तः । ततो मांसादां रक्षसां बलं सुग्रीव
बाधितं पीडितमित्युत्तरश्लोकेन संबन्धः । व्यरसत् आऋन्दितवत् । अग्लायत्
ग्लानिं गतम् । महीतलमध्यशेत महीतले पतितम् । '२४४१॥' शीङ: सार्वधा.
तुके गुणः ।७।४।२१।' ॥
 
१४२३–आश्चयोतद् रुधिरं, तोयमलसच् चाऽति विह्वलम् ॥
 
"
 
अशीयत नृ-मांसाऽदां बलं सुग्रीव-वाधितम् ॥७७॥
आयोतदित्यादि – रुधियत् अत्रवत् । विहलं च सत् तोयमल-
सत् अभिलषितवत् । '२३२३ । वा भ्राश - । ३।११७०।' इत्यादिना विकल्पेन
शप् । अशीयत च अवसन्नम् । '२३६२ । शदेः शितः ।१।३।६० ।' इति तङ् ।
'२३६० । पाघ्रा–१७।३।७८ ।' इत्यादिना शीयादेशः । माँसमदन्तीति । '२९७७ ।
अदोऽनने ।३।२।६८। इति विट् ॥
 
१४२४ - विरूपाक्षस् ततो क्रीडत् संग्रामे मत्त-हस्तिना, ॥
 
-
 
मुष्टिनाऽदालयत् तस्य मूर्धानं वानराऽधिपः ७८
 
विरूपाक्ष इत्यादि — ततो विरूपाक्षो नाम राक्षसः मत्तहस्तिना संग्रामे
अक्रीडत् भ्रान्तवान् । तस्य मूर्धानं वानराधिपः सुग्रीवः मुष्टिना अदालयत्
दलितवान् । '१८८८। दल विदारणे चुरादिः ॥
 
१४२५- अचूर्णयच् च यूपाक्षं शिलया तर्दनन्तरम् ॥
 
संक्रुद्धो मुष्टिनाऽतुम्नाङ्गदोऽलं महोदरम् ॥७९॥
अचूर्णय दित्यादि-
तदनन्तरं वानराधिपः यूपाक्षं नाम राक्षसं शिलया
अचूर्णयत् चूर्णितवान् । 'तत्करोति' इति णिच् । अङ्गदोऽपि संक्रुद्धः मुष्टिना म
होदरं अलं पर्याप्तमतुम्नात् व्यापादितवान् ।'१६१९ । नभ तुभ हिंसायाम्' ऋयादिः ॥
१४२६ - ततो ऽकुष्णाद् दशग्रीवः
क्रुद्धः प्राणान् वनौकसाम् ॥
अगोपायच् च रक्षांसि
 
,
 
दिशश् चा ऽरीन॑भाजयत् ॥ ८० ॥