This page has not been fully proofread.

तथा लक्ष्य-रूपे कथानके 'रावण वधो' नाम सप्तदशः सर्गः- ४२७
१४१८ - सर्वतश् चाऽभयं प्राप्नोन्
नैच्छन् नृभ्यस् तु रावणः ॥
फलं तस्यैदम॑भ्यायाद्
 
दुरुक्तस्येति चा ऽब्रुवन् ॥ ७२ ॥
 
सर्वत इत्यादि — सर्वतो देवादिभ्यः अभयं रावणः ग्रामोत् प्राप्तवान् । यतो
'ब्रह्मणि वरं दातुमुद्यते देवादीनामवध्यो भूयासन्' इत्युक्तवान् । नृभ्यस्तु सका-
शादभयं नैच्छन्नेष्टवान् के मम मानुषा इति तस्य दुरुक्तस्य फलमभ्यायात्
उपागतम् । इत्येवमपरे अब्रुवन् उक्तवन्तः ॥
 
१४१९ - ततो ऽधावन् महा-घोरं रथमा॑स्थाय रावणः, (1
 
अक्ष्मायत मही, गृध्राः समारार्यन्त भीपणाः ॥७३॥
तत इत्यादि — ततोऽनन्तरं महाघोरं रथमास्थायारुह्य रावणः योद्धुं वेगे-
नाधावत् गतवान् । तस्य च धावतो मही अक्ष्मायत कम्पिता। '५२० । मायी
विघ्नने' । गृध्राश्च भीषणा: समारार्यन्त अत्यर्थं गतवन्तः । 'सूचि-सूत्रि-मूत्रि-
भ्यो य' अव्ययंझूर्णांतीनां ग्रहणं यविधाचनेकाजहलाद्यर्थमित्युपसंख्यानात्
अर्यङ् । '२३८० । गुणोऽर्तिसंयोगाद्योः ।७।४।२९।' इत्यधिकृत्य '२६३३ । यदि
च ।७।४।३०।' इति गुणः ॥
 

 
१४२० - मेघाः स विद्युतो ऽवर्पश् चेल-क्लोपं च शोणितम् ॥
अवान् भीमा नभस्वन्तः, प्रारुवन्नं - शिवाः शिवाः ॥
मेघा इत्यादि – सविद्युतो मेघाश्चेलक्नोपं शोणितं रक्तं अवर्षन् वर्षितवन्तः ।
यावता रक्तेन चेलं वासः क्नोपयते सिच्यते तावत्प्रमाणं वृष्टवन्तः । ८५१९। क्क्रूयी
शब्दे' इत्यस्य ण्यन्तस्य ' २५७० । अर्ति- ही - ।७।३।३६।' इत्यादिना पुकि यलोपः ।
'३३५४ । चेले क्नोपेः । ३ । ४ । ३३॥ इति णमुल । भीमाः नभस्वन्तः वायवः अवान्
वान्ति स्म । '२४६३ । लङ: शाकटायनस्यैव ।३।४।१११॥ इति नियमादन्यमते
झेर्जुस् न भवति । शिवाः शृगाल्यः अशुभाः अनिष्टशंसिन्यः प्रारुवन् शब्दितवत्यः ॥
१४२१-आटाट्यता ऽवमत्या ऽसौ
 
दुर्निमित्तानि, संयुगे ॥
अधुनोद् धनुर॑खौघैः
 
प्रौर्णोनूयत विद्विषः ॥ ७५ ॥
 
आटाट्यतेत्यादि — असौ रावणः दुर्निमित्तान्यवमत्य युद्धार्थमाटाट्यत अत्य-
र्थमाटत् । 'सूचि-सूत्रि-' इत्यादिना यङ् । संयुगे युद्धे धनुरधुनोत् कम्पितवान् ।
अस्त्रौघैर्विद्विषः शत्रून् प्रौर्णोनूयत भृशं छादितवान् । 'ऊर्जुन् आच्छादने' । ऊर्णो-
तेर्णुवद्भावात् 'सूचि–सूत्रि-' इत्यादिना वा यङ् । '२१७६। अजादेर्द्वितीयस्य