This page has not been fully proofread.

भट्टि - काव्ये – प्रथमे प्रकीर्ण-काण्डे लक्षण-रूपे प्रथमो वर्गः,
 
'ऐपीरित्यादि मुकतत्वावबोधस्वस्या ध्यानं प्रयोजनं तन्त्र पुनर्जन्म
भूयोजन्म तस्य जयाय यच्चानं त्वमैषीः एपितवानसि । इपेर्लुङ् । मध्यमैक-
वचने '२२६६। इट ईटि ।८।२।२८।' इति सिचो लोपे रूपम् ॥ रूपादिबोधा-
त्र्यवृतञ्च यत्ते–रूपादिषु शब्दस्पर्शरूपसगन्धेषु चक्षुरादिद्वारेण यो बोधोऽध्य-
वसायलक्षणा बुद्धिः तस्माच्च यद्यानं न्यवृतत् निवृत्तम् । वृतेर्छुतादित्वात्
'२३४५॥ युद्भ्यो लुहि ।१।३।११।' इति तिप् । च्लेरङ् ॥ तत्त्वानि पञ्चविंशतिः
पुरुषप्रधानमहदहङ्कारादीनि । प्रतनृति सूक्ष्माणि येन ध्यानेनाबुद्धाः ज्ञातवा-
नसि । बुधेरनुदात्तेतो लुङ् । थासः सिच् । '२३०० । लिसिचावात्मनेपदेषु
११/२।११॥' इति सिच: किव्वागुणाभावः । सिलोपधत्वजश्त्वादि ॥ तद्ध्यानं
शिवं शोभनं कञ्चिदिति नृपोऽवादीत् । न तस्य व्याघात इति । '२२६७ ।
वद- ब्रज – ।७।२।३।' इत्यादिना वृद्धिः । १९७४ । ध्यै चिन्तायाम्' भावे ल्युट् ।
 
ध्यानम् ॥
 
१४
 
-
 
१९ - आख्यन् मुनिस् तस्य शिवं समाधेर्,
विघ्नन्ति रक्षांसि बने ऋतूंथ ॥
 
,
 
तानि द्विपद् - वीर्य-निराकरिष्णुस्
तृणेढु रामः सह लक्ष्मणेन. ॥
 
-
 
आख्यदित्यादि — पृष्टो मुनिस्तस्य समाधेर्ध्यानस्य शिवमनुपद्रवमाख्यत्
कथितवान्। '२४३६ । चक्षिङः ख्याज् ।२४।४॥१४३८॥ अस्यति- ३।१।५२।'
इत्यादिना चलेरङ् । आतो लोपः ॥ किन्त्वयं दोषः - विघ्नन्ति रक्षांसि वने
ऋतून् । '२६६३ । गम-हन ।६।४।१८।' इत्यादिना उपधालोपः । '३५८ । हो
हन्तेः- ।७।३।५४।' इति कुत्वम् ॥ किं क्रियतामिति चेदाह- तानि रक्षांसि ।
द्विषतां वीर्यं सामर्थ्य । वीरेः स्वार्थिकण्यन्तात् '२८४२ । अचो यत् ।३।१।९७।'
तस्य निराकरिष्णुः निराकरणशीलः । १३११६ । अलंकृञ् ।३।२।१३६।' इत्या-
दिना इष्णुच् । तृणेढु हिनस्तु । तृहेर्विधौ लोट् । १२२९६ । एरुः ॥३।४।८६ ।
रुधादित्वात् श्रम् । '२५४५ । तृणह इम् ।७।३।९२१' । '३२४ । हो ढः । ८।२।३१।
ष्टुत्वम्। '२३३५। ढो दे ॥३॥१३॥ इति ढलोपः । सह लक्ष्मणेन लक्ष्म-
णेन सह ॥
 
२० - स शुश्रुवांस्तद् वचनं मुमोह
राजाऽसहिष्णुः सुत - विप्रयोगम् ॥
 
१–१४७॥ श्वःश्रेयसं शिवं भद्रं कल्याणं मङ्गलं शुभम् ॥ इति ना० अ० ।