2023-02-15 17:22:59 by ambuda-bot
This page has not been fully proofread.
तथा लक्ष्य-रूपे कथानके 'रावण वधो' नाम सप्तदशः सर्गः- ४२५
शब्दात् राक्षसेभ्योऽपि । '२४३५ । द्विपश्च ।३।४।११२ । इत्यनेन शाकटाय-
नमते झेर्जुस् । अन्येषामद्विषन् । ५७५१ क्रुध-द्रुह-।१।४।३७१' इत्यादिना
सम्प्रदानसंज्ञा ॥
१४०८ - अघुरं ते महा- घोरमंत्र्योतन्नो॑थ शोणितम्, 11
समपद्यत रक्तेन समन्तात् तेन कर्दमः ॥ ६२ ॥
अघुरन्नित्यादि – अथानन्तरं ते हताः अघुरन् घोरं रौद्रं शब्दितवन्तः ।
'१४३३ । बुर भीमार्थशब्दयोः' । शोणितं चाव्योतत् क्षरति स्म । तेन च रक्त-
स्रुतेन समन्तात्सर्वतः कर्दमः समपद्यत संपन्नः । कर्मणि लङ् ॥
१४०९ - गम्भीराः प्रावहन् नद्यः, समजायन्त च इदाः ॥
s
वृद्धं च तद् रजो ऽशाम्यत्, समवेद्यन्त च द्विषः ॥
गम्भीरा इत्यादि – तेन रक्तेन वर्धिष्णुना गम्भीरा अगाधाः नद्यः प्राव-
हन् प्रवृत्ताः । इदास्तडागाः समजायन्त संजाताः । तच्च रजः प्रवृद्धमशाम्यत्
शान्तम् । उद्गमाभावात् । उत्पन्नस्य च पतनात् रजःशमनात् । द्विषश्च सम-
वेद्यन्त संवेद्यन्ते स्म । १८४१ । विद चेतनाख्याननिवासेपु' इति चौरादिकः ।
कर्मणि लङ् ॥
१४१० - ततो ऽचित्रीयता ऽस्त्रोधैर्
धनुश् चा ऽधूनयन् महत् ॥
रामः, समीहितं तस्य
नाऽचेतन् स्वे न चा ऽपरे ॥ ६४ ॥
तत
इत्यादि — ततोऽनन्तरं रामः शस्त्रौघैरचित्रीयत आश्चर्यीभूतः ।
'३६७५॥ नमो-वरिवः ।३।१।१९।' इति 'चित्रङ् आश्चर्ये' । ङित्त्वात्तङ् । धनुश्च
महदधूनयत् विधूनितवान् । 'धूञ्- प्रीजोर्नुग्वक्तव्यः' । तस्य रामस्य समीहित-
मभिप्रेतं स्वे आत्मीया वानराः न च अपरे परकीया नाचेतन् न ज्ञातवन्तः ॥
१४११ - छिन्नानैक्षन्त भिन्नांश च समन्ताद् राम-सायकैः ॥
ॠष्टं हाहेति चा ऽशृण्वन् नच रामं न्यरूपयन्. ६५
छिन्नानित्यादि – रामसायकैरिछन्नान् भिन्नांश्च समन्तादैक्षन्त । हा हेत
च क्रुष्टं शब्दमन्योन्यस्य चाशृण्वन् । न च नैव रामं न्यरूपयन् राम इति च
न निश्चितवन्तः । 'रूप व्याक्रियायाम्' इति चौरादिकः ॥
१४१२ - अभिनच् छत्रु-संघातान॑क्षुणद् वाजि - कुञ्जरम् ॥
,
अपिनट् च रथा॒ऽनीकं, न चा ऽज्ञायत संचरन्. ६६
अभिनदित्यादि-शत्रुसंघातानभिनत् भिन्नवान् । वाजिकुञ्जरमक्षुणत्
सम्पिष्टवान् । '१५५७ । क्षुदिर् सम्पेषणे । स्थानीकं रथसमूहमपिनटू पिष्ट-