This page has not been fully proofread.

४२४ भट्टि- काव्ये – चतुर्थे तिङन्त - काण्डे लक्षण-रूपे चतुर्थो वर्गः,
१४०२ - अपूरयन् नभः शब्दो वल-संवर्त संभवः ॥
 
अपूर्यन्त च दिग्-भागास् तुमुलैस् तूर्य-निस्वनैः ५६
अपूरयदित्यादि - बलानां संवर्त एकीभावः तस्मात्संभवो यस्य स शब्दः
नभ आकाशमपूरयत् पूरितवान् । तुमुलैस्तूर्य निस्वनैः महद्भिर्घोपैदिग्भागा अपूर्यन्त
पूर्णाः । कर्मणि लङ् ॥
 
१४०३ - आसीद् द्वारेषु संघट्टो रथाऽश्व-द्विपरक्षसाम् ॥
 
सुमहान - निमित्तैश् च समभूयत भीषणः ॥ ५७ ॥
आसीदित्यादि-रथादीनां निर्गच्छतां लङ्काद्वारेषु संघट्टः सुमहानासीत् ।
जनभूयस्तया संघर्पोऽभूत् । २३२५ । अस्तिसिचोऽपृक्ते ।७।३।९६।' इतीट् । अनि-
मित्तैः भीपणैर्भयंकरैर्महद्भिः समभूयत क्षयकरैर्निमित्तैर्भूतम् । भावे लङ् ॥
१४०४ - कपयो ऽविभयु॒स् तस्मिन्न॑भञ्ज॑श् च महा-द्रुमान् ॥
प्रोदखायन् गिरी॑स् तूर्णम॑गृह्णश् च महा-शिलाः ५८
कपय इत्यादि — तस्मिन्निर्गते कपयोऽविभयुः भीतवन्तः । महाद्रुमांश्च
योद्धुमभञ्जन् भनवन्तः । गिरीन् प्रोदखायन् उत्खातवन्तः । १९७८ । खै खदने'
शिति आत्वं न भवति । महाशिला अगृहन् गृहीतवन्तः ॥
 
*
 
१४०५ - ततः समभवद् युद्धं प्राहरन् कपि-राक्षसाः ॥
 
अन्योन्येना ऽभ्यभूयन्त, विमर्दम॑सहन्त च ॥ ५९॥
 
तत इत्यादि —— ततोऽनन्तरं युद्धं समभवत् प्रवृत्तम् । कपिराक्षसाः प्राहरन्
प्रहृतवन्तः । अन्योन्येनाभ्यभूयन्त कपयो राक्षसैः राक्षसाश्च कपिभिरिति ।
कर्मणि लङ् । विमर्दमसहन्त च सोढवन्तः ॥
 
१४०६ - प्रावर्धत रजो भौमं, तद् व्यानुत दिशो दश, ॥
पराऽऽत्मीय - विवेकं च प्रामुष्णात् कपि रक्षसाम् ॥
प्रावर्धतेत्यादि – बलद्वयप्रक्षोभात् भौमं रजः प्रावर्धत प्रवृद्धम् । तद्द्वजो
दश दिशो व्याश्रुत व्याप्नोत् । अयं परोऽयं चात्मीय इति यो विवेकस्तं च प्रामु
ष्णात् अपनीतवत् । '१६२९ । मुष स्तेये' क्र्यादिः ॥
१४०७-ततो ऽद्विपुर् निरालोके
 
स्वेभ्यो ऽन्येभ्यश् च राक्षसाः ॥
अद्विषन् वानराश चैव
वानरेभ्यो ऽपि निर्दयाः ॥ ६१ ॥
 
तत इत्यादि-ततोऽनन्तरं निरालोके समरे राक्षसाः स्वेभ्योऽन्येभ्य-
श्राद्विपुः क्रुध्यन्ति सा । वानरा अपि वानरेभ्योऽद्विषन् निर्दयाः सन्तः । अपि