2023-02-15 17:22:59 by ambuda-bot
This page has not been fully proofread.
5
तथा लक्ष्य-रूपे कथानके 'रावण-वधो' नाम सप्तदशः सर्गः- ४२३
१३९७–अग्नीन॑वरिवस्यंश् च ते, ऽनमस्यंश् च शङ्करम् ॥
द्विजान॑प्रीण॒यन् शान्त्यै यातुधाना भवद् - भियः. ५१
अग्नीनित्यादि — ते यातुधानाः भवद्भियः उत्पद्यमानभीतयः । अनीनव-
रिवस्यन् परिचारितवन्तः । '२६७५ । नमोवरिवश्चिनङः क्यच् ।३।१।१९॥ इति
वरिवसः परिचर्यायामिति क्यच् । तदन्ताल्लुङ् । शङ्करं च महादेवं अनमस्यन्
पूजितवन्तः । अत्र नमसः पूजायां क्यच् । द्विजांच शान्त्यै शान्त्यर्थमप्रीणयन्
श्रीणितवन्तः । 'धूज्-प्रीञोर्नुग्वक्तव्यः' ॥
१३९८–परितः पर्यवाद् वायुराज्य-गन्धिर् मनो-रमः, ॥
अश्रूयत स पुण्याहः स्वस्ति घोषः समुच्चरन्. ॥५२॥
-
परित इत्यादि - अग्निसन्तर्पणादाज्यगन्धिः आज्यस्य गन्धो यस्मिन्वायौ
स वायुर्मनोरमः परितः सर्ववेश्मसु पर्यवात् वाति स्म । स्वस्तिघोषश्च सपुण्याहः
पुण्याहशब्देन सह समुच्चयत श्रूयते स्म । कर्मणि लङ् ॥
१३९९ - योद्धारो ऽविभः शान्त्यै साऽक्षतं वारि मूर्धभिः ॥
रत्नानि चा ऽददुर् गाश् च, समवाञ्छन्न॑थाऽऽशिषः
योद्धार इत्यादि — योद्धारः शान्त्यै शान्त्यर्थं साक्षतं अक्षततण्डुलैर्युकं
सलाजं च वारि जलं मूर्धभिरबिभरः दुधति स्म । '२२२६ । सिजभ्यस्त -
।३।४।१०९।' इति झेर्जुस् । '२४९६। भृञामित् ।७।४।७६ । इतीत्वम् । रखानि
गाश्चाददुः दत्तवन्तः । आशिषश्च तेभ्यः समवान्छन् कातिवन्तः । '२१७ ।
वाछि इच्छायाम् ॥
:
१४०० - अदिहंश् चन्दनैः शुभैर, विचित्रं समवस्त्रयन् ॥
अधारयन् स्रजः कान्ता, वर्म चा ऽन्ये डदधुर् द्रुतम्.
अदिहन्नित्यादि - शुभ्रैः शुक्लवर्णैश्चन्दनैः अदिहन् गात्राणि लिप्तवन्तः ।
'१०८४ । दिह उपचये' । विचित्रं शोभनं समवस्त्रयन् आच्छादितवन्तः ।
'२६७७ । मुण्ड - मिश्र - । ३।१।१।' इत्यादिना वस्त्रात्समाच्छादने णिच् । कान्ताः
शुभ्रा: सजः अधारयन् धारितवन्तः । '९६६ । धृञ् धारणे' । अण्यन्तस्य
प्रयोग एव नास्ति । अन्ये च वर्माणि कवचानि द्रुतमदधुः धारितवन्तः ॥
१४०१ - समक्ष्णुवत शस्त्राणि, प्रामृजन्, खड्ग - संहतीः ॥
,
गजाssदीनि समारोहन्, प्रातिष्ठन्ता ऽऽथ सत्वराः.
समक्ष्णुवतेत्यादि – शस्त्राणि समक्ष्णुवत । '१११० । क्ष्णु तेजने' । '२७३६॥
समः क्ष्णुवः ।१।३।६५ ।' इति तङ् । खड्गसंहतीः प्रामृजन् शोधितवन्तः ।
मृजेरजादौ विभाषा वृद्धिः । गजादीनि यानानि समारोहन आरूढाः । गजा-
दिष्विति पाठान्तरम् । तत्राधिकरणत्वं विवक्षितम् । अथानन्तरमारूढाः सत्वराः
प्रातिष्ठन्त प्रस्थिताः । '२६८९ । समव-प्र-विभ्यः स्थः । १।३।२२।' इति तङ् ॥