This page has not been fully proofread.

४२२ भट्टि- काव्ये – चतुर्थे तित-काण्डे लक्षण-रूपे चतुर्थो वर्गः,
 
9
 
प्रहरणविशेषः । तच्चासुरं सुदुर्जयं सौमित्रिः माहेश्वरेण अस्तम्नात् स्तम्भितवान् ।
१२५५५ । स्तम्भु - ३ ।१।८२।' इत्यादिना श्श्रा चकारात् शुश्च ॥
१३९२ - ततो रौद्र-समायुक्तं माहेन्द्रं लक्ष्मणोऽस्मरत् ॥
तेनाssगम्यत घोरेण, शिरश् चा डहियत द्विपः ४६
तन इत्यादि — ततोऽनन्तरं रौद्रसमायुक्तं रौद्रास्त्रेण सहितं माहेन्द्रमस्त्रं
लक्ष्मणोऽस्मरत् चिन्तितवान् । तेन स्मरणादेवागम्यत आगतम् । भाषे लड़् ।
तस्य द्विपः शत्रोः शिरश्चाहियत छिन्नम् । कर्मणि लङ् ॥
१३९३ - अतुप्यन्नमराः सर्वे, ग्राहृष्यन् कपि- यूथपाः ॥
पर्यप्वजत सौमित्रिं, मूर्ध्यजिघच् च राघवः ॥४७॥
अनुष्यन्नित्यादि - तस्मिन् मृते अमरा देवाः । अनुष्यन् तुष्टाः । कपियू-
थपाः प्राहृप्यन् प्रहृष्टाः । राघवश्च सौमित्रिं पर्यध्वजत आश्लिष्टवान् । '२३९६
ढंश-सञ्ज–।६।४।२५।' इत्यनुनासिकलोपः । '२२७६ । प्राक् सितादङ्व्यवायेऽपि
।८।३।६३ ॥ इति वचनात् । '२२७५ । परि नि-विभ्यः ।८।३।०७० ।' इत्यादिना
पत्वम् । मूर्यजिधच आघातवान् ॥
 
-
 
,
 
१३९४ - अरोदीद् राक्षसाऽनीकमरोदन् नृ-भुजां पतिः ॥
मैथिव्यै चा ऽशपद्ध॑न्तुं तां प्राक्रमत चाऽऽतुरः ४८
अरोदीदित्यादि - राक्षसानीकं राक्षससैन्यमरोदीत् रुदितम् । '२४७५ ।
रुदश्च पञ्चभ्यः ।७।३।९८।' इतीद । नृभुजां पतिः रावणः अरोदत् रुदितः ।
'२४७६। अड् गार्ग्यगालवयोः ।७।३।९९१ । इत्यडागमः । मैथिल्यै चाशपत्
आक्रुष्टवान् । सर्वदोषस्य मूलमिति । ५७२ । लाघ-हुङ–।१।४।३४। इत्या-
दिना कर्मणि सम्प्रदानसंज्ञा । तां च हन्तुं आतुरो मन्युक्षतः प्राक्रमत प्रारब्ध-
चान् । '२७१'५ । प्रोपाभ्याम् ।१।३।४२।' इति तङ् ॥
 
,
 
१३९५ - 'अ-युक्तमि॑िदम' त्य॑न्ये तमाप्ताः प्रत्यवारयन् ॥
न्यरुन्धंश चा ऽस्य पन्थानं वन्धुता शुचमा॑रुणत्. ४९
अयुक्तमित्यादि — अन्ये आप्ताः राक्षसाः अयुक्तमेतदिति मन्यमानाः तं
तथाविधं प्रत्यवारयन् आवार्य स्थिताः । १९५० । वृञ् आवरणे' चुरादिः ।
न्यरुन्धंश्च हस्तपादादिग्रहणेन रूद्धवन्तः । बन्धुता बन्धुसमूहः । अस्य शोक-
मारुणत् अपनीतवती । हङयादि लोपः । धकारस्य जत्वम् ॥
१३९६ - आस्फायता ऽस्य वीरत्वम॑मर्षश् चाऽप्यतायत. ॥
 
रावणस्य ततः सैन्यं समस्तम॑युयुत्सयत् ॥ ५० ॥
आस्फाय तेत्यादि — अथ विरुद्धशोकस्य रावणस्य वीरत्वं शौर्य आस्फायत
वृद्धिं गतम् । अमर्षश्च क्रोधः अतायत विस्तारं गतः । ततः स रावणः समस्तं
सैन्य अयुयुत्सयत् युयुत्समानं प्रयोजितवान् ॥