2023-02-15 17:22:58 by ambuda-bot
This page has not been fully proofread.
तथा लक्ष्य-रूपे कथानके 'रावण-वधो' नाम सप्तदशः सर्गः- ४२१
दोपैरित्यादि — एभिर्दोषैस्तव पिता रावणः अरमत क्रीडितवान् । यैर्दोषै-
र्मया अत्यज्यत । कर्मणि लङ् । ततः पितुर्दोषप्रकाशनवचनादनन्तरम् । रावणि-
रिति वक्ष्यमाणेन संवन्धः । अरुप्यत् रुष्टः । 'रुष रुष्टौ' । अनर्दच्च विस्फूर्जितवांश्च ॥
१३८७ - शरैरताडयद् वन्धुं, पञ्चविंशतिभिर् नृपम् ॥
!
रावणिस् तस्य सौमित्रिर॑मनाच् चतुरो हयान् ४१
शरैरित्यादि — बन्धुं विभीषणं द्विविंशतिमिरताडयत् । चत्वारिंशतेत्यर्थः ।
द्वे विंशती येषां शराणामिति बहुव्रीहिः । एवं च '८०८ । व्यष्टनः संख्यायाम्-
।६।३।४७।' इत्यात्वं न । तथा पञ्चविंशतिभिः शरैर्नृप लक्ष्मणं अताडयत् ।
शतेनेत्यर्थः । द्वौ च विंशतिश्च पञ्च विंशतिश्चेत्यस्मिन् व्याख्याने द्वाविंशत्या पञ्च-
विंगत्येति च प्राप्नोति । सौमिन्निस्तु तस्य रावणेश्चतुरो हयान् बाणैरमनात् ।
'९०५ । मथे विलोडने' इति यादौ ॥
१३८८ - सारथिं चा ऽलुनाद् वाणैरैभनक् स्यन्दनं तथा ॥
सौमित्रिम॑किरद् वाणैः परितो रावणिस् ततः ४२
सारथिमित्यादि — तस्य रावणेः सारथिं चालुनात् छिन्नवान् । '२५५८ ।
प्वादीनां ह्रस्वः ।७।३।८०११ । तथा स्यन्दनमभनकू भगवान् । '१५४७ । भञ्जो
आमर्दने' इति रुधादिः । ततोऽनन्तरं रावणिः सौमित्रिं परितः समन्तात्
बाणैरकिरत् छादितवान् ॥
.
१३८९ - ताव॑स्फावयतां शक्तिं, वाणांश चाऽकिरतां मुहुः ॥
वारुणं लक्ष्मणोऽक्षिप्यक्षिपद् रौद्रमि॑न्द्रजित्. ४३
तावित्यादि – ताविन्द्रजिलक्ष्मणौ शक्किं सामर्थ्यमस्फावयतां वर्धितवन्तौ ।
'२५९७॥ स्फायो वः ।७।३।४।१॥ बाणांश्च मुहुरकिरतां विक्षिप्तवन्तौ । वारुण-
मस्रं लक्ष्मणोऽक्षिप्यत् । देवादिकस्य रूपम् । इन्द्रजिद्रौद्रं पाशुपतमक्षिपत्
क्षिप्तवान् । तौदादिकस्य रूपम् ॥
१३९० - ते परस्परमासाद्य शस्त्रे नाशम॑गच्छताम् ॥
आसुरं राक्षसः शस्त्रं ततो घोरं व्यसर्जयत् ॥४४॥
ते परस्परमित्यादि – ते शस्त्रे परस्परमासाद्य प्राप्य नाशमगच्छतां नाशं
गते । ततस्तन्नाशादनन्तरं राक्षसो रावणिः आसुरं असुरदैवतं शस्त्रं घोरं भीषणं
व्यसर्जयत् क्षिप्तवान् ॥
१३९१ - तस्मान् निरपतद् भूरि शिला-शूलेष्टि मुद्गरम् ॥
माहेश्वरेण सौमित्रिर॑स्त॒भ्नात् तत् सुदुर्जयम् ॥४५॥
तस्मादित्यादि — तस्मादासुरादत्रात् शिलाशूलेष्टिमुद्गरं निरपतत् । इष्टिः
भ० का० ३६