2023-02-15 17:22:58 by ambuda-bot
This page has not been fully proofread.
४२० भट्टि काव्ये – चतुर्थी तिङन्त काण्डे लक्षण-रूपे चतुर्थी वर्गः,
सत्यं समभवं वंशे
पापानां रक्षसाम॑हम् ॥ ३६ ॥
मिथ्येत्यादि — मिथ्या मृषा मा स्म व्यतिक्राम: मा परिभूः । ८२३२२ ।
क्रमः ।७।३।७६।' इत्यादिना शिति दीर्घः । शीलं स्वभावः मा न बुध्यथाः मा
न बुद्धास्त्वं अपि तु ज्ञातवानसि । '२२२०। स्मोत्तरे लङ् च ।३।३।१७६।
पापानां रक्षसां वंशेऽहं सत्यं समभवं संभूत इति ॥
१३८३ - न त्वजायत मे शीलं
ताहगू, यादृक् पितुस् तव ॥
क्षussवहेषु दोषेषु
वार्यमाणो मया डरमत् ॥ ३७ ॥
नत्वित्यादि
– यद्यप्यहं राक्षसकुले जातस्तथापि तव पितुर्थादृक् शीलं स्वभा
वस्तादृक् मे न त्वजायत नैवाभूत् । यतोऽसौ क्षयमावहन्तीति क्षयावहाः ।
पचाद्यच् । तेषु दोपेषु परस्त्रीहरणादिपु मया वार्यमाणोऽपि । दशग्रीव इनि
संबन्धः । अरमत् रतिं कृतवान् । २७४९ । व्याङ् परिभ्यो रमः । १।३१८३॥
इति परस्मैपदम् ॥
१३८४ - दश-ग्रीवो ऽहमे॑तस्मा॑दत्यजं, न तु विद्विषन्. 11
पर स्वान्यार्जयन्, नारीर॑न्यदीयाः परामृशत् ॥३८॥
दशग्रीव इत्यादि - एतस्मात्कारणादहं रावणमत्यजं त्यक्तवानस्मिन पुन-
द्विषन् अमित्रीभवन् । '३१११ । द्विषोऽमित्रे । ३ । २।१३१॥ इति शतृप्रत्ययः ।
तान् दोषानाह-परस्त्रानि परवित्तानि आर्जयन् अन्यैर्माहितवान् । '२३३।३५॥
अर्ज सर्ज अर्जने' इनि भ्वादौ हेतुमण्णिच् । '१८५८ । अर्ज प्रतियत्ने' इति
चौरादिकस्य वा रूपम् । अन्यदीयाः नारीश्च परामृशत् स्पृष्टवान् । १५५९
मृश आमर्शने इति तुदादावनुदात्तेत् ॥
"
१३८५ - व्यजिघृक्षत् सुरान् नित्यं, प्रामाद्यद् गुणिनां हिते, ॥
आशङ्कत सुहृद् बन्धून॑ वृद्धान् बहुमन्यत ॥ ३९॥
व्यजिघृक्षदित्यादि – सुरान् नित्यं व्यजिघृक्षत् विग्रहीतुमैच्छत् । गुणिनां
माल्यवरप्रभृतीनां यदुक्तं हितं तस्मिन् विषये प्रामाद्यत् प्रमादं गतः । १२८४ ।
मदी हर्षे' । '२५१९। शमामष्टानाम् - १७।३।७४ । इति दीर्घः । सुहृदो बन्धूंश्च
सुहृद्वन्धून् आशङ्कत विकल्पितवान् । अवृद्धान् अविदुषः प्रहस्तादीन् बह्नम-
न्यत श्लाघितवान् ॥
१३८६ - दोषैरर मतैभिस् ते पिता ऽत्यज्यत यैर् मया ॥
ततो - रुष्यदनर्दच् च, द्वि-विंशतिभिरैव च ॥४०॥