This page has not been fully proofread.

तथा लक्ष्य-रूपे कथानके 'रावण-वधो' नाम सप्तदशः सर्गः- ४१९
अनुदात्तेत् इह च देहः सुरामिषैरपुष्यद् वृद्धिं गतः । पुर्देवादिकः । देहनपुष्य
इति पाठान्तरम् । तत्र देहं पोपितवानसि । अन्तर्भावितण्यर्थो द्रष्टव्यः ॥
 
१३७९ - इहा ऽजीव, इहैव त्वं क्रूरमरभथाः कथम् ॥
 
"
 
.
 
नाऽपश्यः पाणिमर्द्रं त्वं बन्धु-त्वं नाऽप्यपैक्षथाः ३३
इहेत्यादि-इहाजीवः जीवितोऽसि कथमिहैव त्वं क्रूरं कर्म आरभथाः
आरब्धवानसि । आई पाणिं च नापश्यत्वं न दृष्टवानसि । यावता कालेन
भुक्त्वा पाणिः शुष्यति तावन्तमपि कालं नापेक्षितवानसीत्यर्थः । आस्तां ताव-
देतत् । बन्धुत्वमपि एकगोत्रत्वमपि नापैक्षथाः ॥
 
१३८० - अ धर्मान् ना ऽत्रसः पाप !
लोक-वादान् न चा ऽबिभेः ॥
धर्म-दूषण ! नूनं त्वं
 
ना ऽजाना, ना ऽशृणोरिदम् ॥ ३४ ॥
 

 

 
-
 
अधर्मादित्यादि – हे पाप ! अधर्मादपि नात्रसः न त्रस्तोऽसि । '११९२॥
त्रसी उद्वेगे' । दिवादौ । '२३२१ । वा आश-।३॥।७०१' इत्यादिना पक्षे शप् ।
लोकवादात् जनापवादात् न चाबिभेः न भीतोऽसि । लौ द्विवचनम् । धातो-
र्गुणः । ८५८८ । भी त्रार्थानाम्- ।१।४॥२५।' इत्यपादानसंज्ञा । हे धर्मदूषण ।
धर्मस्य दूषण धर्मोच्छेदक । अतिविपरीते स्थितत्वात् । १२६१ । दुप वैकृत्ये' ।
८२६०४ । दोषो णौ ।६।४।१०।' इत्युपधाया ऊत्वम् । दूषयतीति दूषणः ।
'२८४१ । कृत्यल्युटो बहुलम् ।३।३।११३।' इति कतेरि ल्युट् । न तु नन्यादि-
पाठे ल्युः । तत्र हि 'नन्दि-वाशि-मदि-दूषि- साघि-पचि-शोधि-रोचिभ्यो ण्यन्तेभ्यः
पूजायाम्' इत्युक्तम् । न चात्र पूजा गम्यत इति । नूनं अवश्यं त्वं नाजानाः
स्वयमिदं न ज्ञातवानसि । '१६०४ । ज्ञा आवबोधने ।' क्यादावुदात्तेत् । २५११।
ज्ञा-जनोर्जा ।७।३।७९' । इदमन्यतोऽपि नाशृणोः द्विषयो न श्रुतवानसि !
'२३८६ । श्रुवः ट च ।३।१।७४ । १ ॥
 
किं तदित्याह-
१३८१- निराकृत्य यथा वन्धून् लघु-त्वं यात्य - संशयम्' ॥
पितृव्येण ततो वाक्यमभ्यवीयत शऋजित् ॥ ३५ ॥
निराकृत्येत्यादि — यथा बन्धून् निराकृत्य परित्यज्य [लघुत्वम् ] लघुतां यात्य-
संशयमसन्देहम् । ततः पुत्रोक्तेरनन्तरं पितृव्येण विभीषणेन शऋजिद्वाक्यमभ्य-
घीयत अभिहितः । कर्मणि लङ् । '२४६२ । घु-मास्था । ६॥।६६।' इतीत्वम् ॥
१३८२ - 'मिथ्या मा स्म व्यतिक्रामो,
 
मच्छीलं मा न बुध्यथाः ॥