This page has not been fully proofread.

तथा लक्ष्य-रूपे कथानके 'रावण वधो' नाम सप्तदशः सर्गः- ४१७
यत्कृत इत्यादि-
[ – यस्याः कृते यन्निमित्तं [ अरीन् ] परान् अशोकवनिका-
स्थितान् व्यगृह्णीम विगृहीतवन्तः । '२२२० । नित्यं ङितः । ३।४।१९। इति
लङि उत्तमस्य लोपः । समुद्रं चातराम तीर्णवन्तः । '२१७० । अतो दीर्घौ यजि
।७।३।१०१।' इति दीर्घः । सा सीता हतेति वदन्मत्सुतः राममुपातिष्ठत्
ढौकितवान् । अत्र यमुना गङ्गामुपतिष्ठत इत्येवं सङ्गतकरणम् । उपश्लेषो
नास्तीति 'उपाद्देवपूजा-' इत्यादिना तङ् न भवति ॥
१३७० - ततः प्रामुह्यतां वीरौ राघवाव॑रुतां तथा ॥
 
उष्णं च प्राणतां दीर्घमुच्चैर् व्याक्रोशतां तथा ॥ २४ ॥
तत इत्यादि — ततो हनुमद्वचनानन्तरं राघवौ वीरौ प्रामुह्यतां मोहं गतौ
तथाऽरुतां ऋन्दितवन्तौ । '११०७। रु शब्दे' । '२४४३ । उतो वृद्धिः - १७।३।८९। '
न भवति तत्रापि 'सार्वधातुके' इत्यनुवर्तते । तथा दीर्घमुष्णं च प्राणतां
निश्वसितवन्तौ । '११४४ । अन प्राणने' । '२४७४ । 'रुदादिभ्यः सार्वधातुके ।
७।२।७६।' इतीट् । तथा उच्चैराक्रोशतां 'हा सीते' इति आहूतवन्तौ ॥
१३७१ तावभाषत पौलस्त्यो 'मा स्म प्ररुदितं युवाम् ॥
 
>
 
1
 
ध्रुवं स मोहयित्वाऽस्मान् पापोऽगच्छन्निकुम्भलाम् ॥
तावित्यादि – पौलस्त्यो विभीषण आगत्य तौ तथाभूतावभाषत उक्तवान्
युवां मा स्म प्ररुदितं मारोदिष्टम् । '२२२०१ स्मोत्तरे लङ् च ।३।२।१७६।
इति लङ् । यतो ध्रुवमवश्यं स इन्द्रजित् पापः अस्मान् मोहयित्वा मायया
विमोह्य । मुहेरकर्मकत्वाद् '५४०१ गति बुद्धि । १।४।५२।' इत्यादिना कर्मसंज्ञा ।
निकुम्भिलामग्निगृहमगच्छत् गतवान् । तत्र भूतानद्यतन एव लङ् ॥
 
१३७२ मा स्म तिष्ठत, तत्र-स्थो वध्यो ऽसार्व- हुता॒ऽनलः ॥
अस्त्रे ब्रह्म - शिरस्यु॑ स्यन्दने चा ऽनुपार्जिते ॥ २६ ॥
 
मा स्मेत्यादि — मा स्म तिष्टत मा विलम्बध्वं, गच्छत । '२२२० । स्मोत्तरे
लङ् च ।४।३।१७६।' यतस्तत्रस्थो निकुम्भिलास्थोऽसावहुतानलः अकृताग्निकार्यो
वध्यः शक्यो हन्तुम् । '२८२३ । शकि लिङ् च ।३।३।१७२ ।' इति चकारात्
'३३१२ । कृत्याश्च । ३।३।१७१।' इति वचनात् लडू । 'कृत्याश्च' इति वचनात्
'हनो वधश्च' इति उपसंख्यानाद्यत् 'कथमहुतानलो वध्य' इति चेत् अस्त्रे
ब्रह्मशिरसि ब्रह्मशिरोनाम्नि उग्रे दुष्प्रयोगे स्यन्दने च अनुपार्जितेऽप्राप्ते सति ॥
कथमुभयं तेनोपार्ज्यत इत्याह-
१३७३ - ब्रह्मा ऽदधाद् वधं तस्य तस्मिन् कर्मण्यसंस्थिते' ।
 
प्रायच्छदाज्ञां सौमित्रेर् यूथपानां च राघवः ॥ २७ ॥
ब्रह्मेत्यादि — यतस्तस्यां निकुम्भिलायां कर्मण्यसंस्थिते असमाप्ते ब्रह्मा वर्ध
तस्यादधात् धारितवान् । उक्तवानित्यर्थः । लौ द्विवचनम् । एवं विभीषणवचः