2023-02-15 17:21:44 by ambuda-bot
This page has not been fully proofread.
तथा लक्ष्य-रूपे कथानके श्री राम-संभवो नाम प्रथमः सर्गः - १३
१६३।' इत्यादिना क्वरप् । तैरुपायंसत स्वीकृतानि । उपपूर्वो यमिः स्वीकरणे
वर्तते । तस्मात्कर्मणि लुङ् । '२२५८ । आत्मनेपदेषु ॥७॥१॥५॥' इत्यादिना
अदादेशः । '२६९७ । हनः सिच् ॥२।१४॥ इति ज्ञापकादनुनासिकलोपाभावः ।
ततस्ते रामादयो गुणिनो मानसानि मनांसि । प्रज्ञादित्वात्स्वार्थे णः । भिन्न-
वृत्तीनि नानाविधप्रवृत्तीनि विषयेषु तानि मानसान्यपि जनानां समं साधा-
रणम् । क्रियाविशेषणम् । अध्यवात्सुरध्युषितवन्तः । अधिपूर्वाद्वसेः सिचि
(२२६७ । वद-ब्रज ।७।२।३।' इत्यादिना वृद्धिः । '२३४२ । सः सि-१७।४।४९। '
इति तत्वम् । '२२२६ । सिजभ्यस्त । ३।४।१०९ ।' इति जुस् । '५४४ ॥ उपानु-
१।४।४८।' इत्यादिनाऽधिकरणस्य कर्मसंज्ञा ॥
१७ - ततो भ्यगाद् गाधि - सुतः क्षितीन्द्र
रक्षोभिर॑भ्याहत-कर्म-वृत्तिः ॥
रामं वरीतुं परिरक्षणा-थे,
राजाऽऽजि॑िहत् तं मधुपर्क-पाणिः ॥
तत इत्यादि - तेषु रामादिषु तथाभूतेषु । गाधिसुतो विश्वामित्रः । क्षितीन्द्
राजानमभ्यगादभिगतवान् । इणो गादेशः । '२२२३ । गाति-स्था । २४७७१
इत्यादिना सिचो लुक् । रक्षोभिर्निशाचरैरभ्याहताभिभूता यागादेः कर्मणो
वृत्तिः प्र॒वृत्तिर्यस्येति । रामं वरीतुं प्रार्थयितुम् । ८२३९१॥ वृतो वा ।७।२।३८।'
इति इटो दीर्घत्वम् । परिरक्षणार्थं । विहन्यमानस्य कर्मण इत्यर्थः । तं गाधि-
सुतम् । आजिहत् पूजितवान् । '१८६४ । अर्ह पूजायाम्' इति स्वार्थिक-
ण्यन्तश्चौरादिको गृह्यते न भौवादिकः । तस्माद्धेतुमण्णिचात्र न भवितव्यम् ।
'२३१२ । णि-श्रि - ।३।१।४८ । इत्यादिना चङ् । णिलोपः '२२४३॥ द्विर्वच
नेऽचि ११११५९ ।' इति स्थानिवद्भावात् । '२१७६ । अजादेर्द्वितीयस्य ॥१।२३॥
इति हिशब्दो विरुच्यते । रेफस्य न । '२४४६ । नन्द्राः ।६।१।३॥ इति प्रति-
षेधः । चुत्वम् । आट् । वृद्धिः । मधुपर्कपाणिः । दधिघृतमधून्येकीकृतानि
मधुपर्क इत्युच्यते । तस्मिन् पात्रे स्थितः पाणिर्यस्येति विग्रहः । 'सप्तम्यु-
पमाने -' इत्यादिना उत्तरपदलोपी समासः । पात्रादुद्धृत्य मधुपर्केण पूजि -
ववानित्यर्थः ॥
१८ - ऐषी: पुनर्जन्म - जयाय यत् त्वं,
रूपाऽऽदि-बोधान् न्यवृतच् च यत् ते, ॥
तत्त्वान्य॑बुद्धाः प्रतनूनि येन,
ध्यानं नृपस् तच्छि॑िवमित्यवादीत् ॥ .
१ – ७४३॥ अथ गाधेयो विश्वामित्रश् च कौशिकः ॥' इति ना० अ० । २-१४७१
श्वःश्रेयर्स शिवं भद्रं कल्याणं मङ्गलं शुभम् ॥ इति मा अ
भ० का० २